библиотека йоги
На этой странице материалы, посвященные популярному первоисточнику йоги — Йога-сутре (ее также называют Йога-сутры, во множественном числе).
Здесь:
• Текст сутры в оригинале на санскрите в двух способах записи — в деванагари и в транслитерации IAST.
• Таблица нюансов переводов Йога-сутры.
• Лекция о деконструкции Йога-сутры.
• Перевод некоторых строк Йога-сутры дан в блоге «Йога сутра: комментарий современного практика».
• Переводы Йога-сутры на английский и русский в формате pdf.
 

योगसूत्राणि — Йога-сутра в оригинале на санскрите

॥ पातञ्जलयोगसूत्राणि ॥

॥ श्री पातञ्जलयोगसूत्राणि ॥

॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥

॥ समाधिपादः ॥

अथ योगानुशासनम् ॥ १॥

योगश्चित्तवृत्तिनिरोधः ॥ २॥

तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ ३॥

वृत्तिसारूप्यमितरत्र ॥ ४॥

वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ ५॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६॥

प्रत्यक्षानुमानागमाः प्रमाणानि ॥ ७॥

विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ ८॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १०॥

अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ ११॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२॥

तत्र स्थितौ यत्नोऽभ्यासः ॥ १३॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ १५॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ १६॥

वितर्कविचारानन्दास्मितारूपानुगमात् सम्प्रज्ञातः ॥ १७॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥

भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ १९॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २०॥

तीव्रसंवेगानामासन्नः ॥ २१॥

मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः ॥ २२॥

ईश्वरप्रणिधानाद्वा ॥ २३॥

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४॥

तत्र निरतिशयं सार्वज्ञबीजम् ॥ २५॥

स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ २६॥

तस्य वाचकः प्रणवः ॥ २७॥

तज्जपस्तदर्थभावनम् ॥ २८॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९॥

व्याधिस्त्यानसंशयप्रमादालस्याविरति-

भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि

चित्तविक्षेपास्तेऽन्तरायाः ॥ ३०॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ ३१॥

तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ ३२॥

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां

भावनातश्चित्तप्रसादनम् ॥ ३३॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५॥

विशोका वा ज्योतिष्मती ॥ ३६॥

वीतरागविषयं वा चित्तम् ॥ ३७॥

स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥

यथाभिमतध्यानाद्वा ॥ ३९॥

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ ४०॥

क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु

तत्स्थतदञ्जनता समापत्तिः ॥ ४१॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ ४४॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५॥

ता एव सबीजः समाधिः ॥ ४६॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७॥

ऋतम्भरा तत्र प्रज्ञा ॥ ४८॥

श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ ४९॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ ५०॥

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ ५१॥

॥ इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः ॥

॥ द्वितीयोऽध्यायः ॥

॥ साधनपादः ॥

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १॥

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३॥

अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ ४॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥

सुखानुशयी रागः ॥ ७॥

दुःखानुशयी द्वेषः ॥ ८॥

स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ ९॥

ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ १०॥

ध्यानहेयास्तद्वृत्तयः ॥ ११॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३॥

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४॥

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च

दुःखमेव सर्वं विवेकिनः ॥ १५॥

हेयं दुःखमनागतम् ॥ १६॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं

भोगापवर्गार्थं दृश्यम् ॥ १८॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २०॥

तदर्थ एव दृश्यस्यात्मा ॥ २१॥

कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात् ॥ २२॥

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३॥

तस्य हेतुरविद्या ॥ २४॥

तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ २५॥

विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७॥

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८॥

योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः ॥ २८॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ २९॥

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३०॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ ३१॥

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२॥

वितर्कबाधने प्रतिपक्षभावनम् ॥ ३३॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका

मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् ॥ ३४॥

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ ३६॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ ३७॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥

अपरिग्रहस्थैर्ये जन्मकथंतासम्बोधः ॥ ३९॥

शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४०॥

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शन-योग्यत्वानि च ॥ ४१॥

संतोषादनुत्तमसुखलाभः ॥ ४२॥

कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः ॥ ४३॥

स्वाध्यायाद् इष्टदेवतासम्प्रयोगः ॥ ४४॥

समाधिसिद्धिरीश्वरप्रणिधानात् ॥ ४५॥

स्थिरसुखम् आसनम् ॥ ४६॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् ॥ ४७॥

ततो द्वन्द्वानभिघातः ॥ ४८॥

तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ ४९॥

स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिः

परिदृष्टो दीर्घसूक्ष्मः ॥ ५०॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ ५१॥

ततः क्षीयते प्रकाशावरणम् ॥ ५२॥

धारणासु च योग्यता मनसः ॥ ५३॥

स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ ५४॥

ततः परमा वश्यतेन्द्रियाणाम् ॥ ५५॥

॥ इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ॥

 


॥ तृतीयोऽध्यायः ॥

॥ विभूतिपादः ॥

देशबन्धश्चित्तस्य धारणा ॥ १॥

तत्र प्रत्ययैकतानता ध्यानम् ॥ २॥

तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ ३॥

त्रयमेकत्र संयमः ॥ ४॥

तज्जयात्प्रज्ञालोकः ॥ ५॥

तस्य भूमिषु विनियोगः ॥ ६॥

त्रयमन्तरङ्गं पूर्वेभ्यः ॥ ७॥

तदपि बहिरङ्गं निर्बीजस्य ॥ ८॥

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ

निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ ९॥

तस्य प्रशान्तवाहिता संस्कारात् ॥ १०॥

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ १२॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ १३॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५॥

परिणामत्रयसंयमाद् अतीतानागतज्ञानम् ॥ १६॥

शब्दार्थप्रत्ययानामितरेतराध्यासात्

सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ १७॥

संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ १८॥

प्रत्ययस्य परचित्तज्ञानम् ॥ १९॥

न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ २०॥

कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे

चक्षुःप्रकाशासम्प्रयोगेऽन्तर्धानम् ॥ २१॥

सोपक्रमं निरुपक्रमं च कर्म

तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२॥

मैत्र्यादिषु बलानि ॥ २३॥

बलेषु हस्तिबलादीनि ॥ २४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ २५॥

भुवनज्ञानं सूर्ये संयमात् ॥ २६॥

चन्द्रे ताराव्यूहज्ञानम् ॥ २७॥

ध्रुवे तद्गतिज्ञानम् ॥ २८॥

नाभिचक्रे कायव्यूहज्ञानम् ॥ २९॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३०॥

कूर्मनाड्यां स्थैर्यम् ॥ ३१॥

मूर्धज्योतिषि सिद्धदर्शनम् ॥ ३२॥

प्रातिभाद्वा सर्वम् ॥ ३३॥

हृदये चित्तसंवित् ॥ ३४॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः

परार्थत्वात्स्वार्थसंयमात्पुरुषज्ञानम् ॥ ३५॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६॥

ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ ३७॥

बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च

चित्तस्य परशरीरावेशः ॥ ३८॥

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ३९॥

समानजयाज्ज्वलनम् ॥ ४०॥

श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१॥

कायाकाशयोः सम्बन्धसंयमाल्लघुतूल-

समापत्तेश्चाकाशगमनम् ॥ ४२॥

बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ ४३॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४॥

ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ ४५॥

रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ ४६॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ ४७॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४८॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं

सर्वज्ञातृत्वं च ॥ ४९॥

तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ ५०॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥ ५१॥

क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२॥

जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३॥

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं

चेति विवेकजं ज्ञानम् ॥ ५४॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥

॥ इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः ॥

 


॥ कैवल्यपादः ॥

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥

जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ २॥

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु

ततः क्षेत्रिकवत् ॥ ३॥

निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ ५॥

तत्र ध्यानजमनाशयम् ॥ ६॥

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७॥

ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ ८॥

जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९॥

तासामनादित्वं चाशिषो नित्यत्वात् ॥ १०॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ ११॥

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२॥

ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३॥

परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४॥

वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५॥

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६॥

तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ १८॥

न तत्स्वाभासं दृश्यत्वात् ॥ १९॥

एकसमये चोभयानवधारणम् ॥ २०॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ २१॥

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३॥

तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४॥

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥

हानमेषां क्लेशवदुक्तम् ॥ २८॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथा

विवेकख्यातेर्धर्ममेघः समाधिः ॥ २९॥

ततः क्लेशकर्मनिवृत्तिः ॥ ३०॥

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ ३१॥

ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ ३२॥

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं

स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४॥

॥ इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ॥

॥ पातञ्जलयोगसूत्राणि ॥

॥ श्री पातञ्जलयोगसूत्राणि ॥

॥ महर्षि पतञ्जलि प्रणीतं योगदर्शनम् ॥

॥ pātañjalayogasūtrāṇi ॥

॥ śrī pātañjalayogasūtrāṇi ॥

॥ maharṣi patañjali praṇītaṃ yogadarśanam ॥

॥ samādhipādaḥ ॥

atha yogānuśāsanam ॥ 1॥

yogaścittavṛttinirodhaḥ ॥ 2॥

tadā draṣṭuḥ svarūpe’vasthānam ॥ 3॥

vṛttisārūpyamitaratra ॥ 4॥

vṛttayaḥ pañcatayyaḥ kliṣṭā’kliṣṭāḥ ॥ 5॥

pramāṇaviparyayavikalpanidrāsmṛtayaḥ ॥ 6॥

pratyakṣānumānāgamāḥ pramāṇāni ॥ 7॥

viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 8॥

śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 9॥

abhāvapratyayālambanā vṛttirnidrā ॥ 10॥

anubhūtaviṣayāsampramoṣaḥ smṛtiḥ ॥ 11॥

abhyāsavairāgyābhyāṃ tannirodhaḥ ॥ 12॥

tatra sthitau yatno’bhyāsaḥ ॥ 13॥

sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 14॥

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam ॥ 15॥

tatparaṃ puruṣakhyāterguṇavaitṛṣṇyam ॥ 16॥

vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ ॥ 17॥

virāmapratyayābhyāsapūrvaḥ saṃskāraśeṣo’nyaḥ ॥ 18॥

bhavapratyayo videhaprakṛtilayānām ॥ 19॥

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 20॥

tīvrasaṃvegānāmāsannaḥ ॥ 21॥

mṛdumadhyādhimātratvāt tato’pi viśeṣaḥ ॥ 22॥

īśvarapraṇidhānādvā ॥ 23॥

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 24॥

tatra niratiśayaṃ sārvajñabījam ॥ 25॥

sa pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 26॥

tasya vācakaḥ praṇavaḥ ॥ 27॥

tajjapastadarthabhāvanam ॥ 28॥

tataḥ pratyakcetanādhigamo’pyantarāyābhāvaśca ॥ 29॥

vyādhistyānasaṃśayapramādālasyāvirati-

bhrāntidarśanālabdhabhūmikatvānavasthitatvāni

cittavikṣepāste’ntarāyāḥ ॥ 30॥

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 31॥

tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 32॥

maitrīkaruṇāmuditopekṣāṇāṃ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ

bhāvanātaścittaprasādanam ॥ 33॥

pracchardanavidhāraṇābhyāṃ vā prāṇasya ॥ 34॥

viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ 35॥

viśokā vā jyotiṣmatī ॥ 36॥

vītarāgaviṣayaṃ vā cittam ॥ 37॥

svapnanidrājñānālambanaṃ vā ॥ 38॥

yathābhimatadhyānādvā ॥ 39॥

paramāṇu paramamahattvānto’sya vaśīkāraḥ ॥ 40॥

kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu

tatsthatadañjanatā samāpattiḥ ॥ 41॥

tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ ॥ 42॥

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 43॥

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 44॥

sūkṣmaviṣayatvaṃ cāliṅgaparyavasānam ॥ 45॥

tā eva sabījaḥ samādhiḥ ॥ 46॥

nirvicāravaiśāradye’dhyātmaprasādaḥ ॥ 47॥

ṛtambharā tatra prajñā ॥ 48॥

śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 49॥

tajjaḥ saṃskāro’nyasaṃskārapratibandhī ॥ 50॥

tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 51॥

॥ iti patañjaliviracite yogasūtre prathamaḥ samādhipādaḥ ॥

॥ dvitīyo’dhyāyaḥ ॥

॥ sādhanapādaḥ ॥

tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ॥ 1॥

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ॥ 2॥

avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ॥ 3॥

avidyā kṣetramuttareṣāṃ prasuptatanuvicchinnodārāṇām ॥ 4॥

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ॥ 5॥

dṛgdarśanaśaktyorekātmatevāsmitā ॥ 6॥

sukhānuśayī rāgaḥ ॥ 7॥

duḥkhānuśayī dveṣaḥ ॥ 8॥

svarasavāhī viduṣo’pi tathārūḍho’bhiniveśaḥ ॥ 9॥

te pratiprasavaheyāḥ sūkṣmāḥ ॥ 10॥

dhyānaheyāstadvṛttayaḥ ॥ 11॥

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ॥ 12॥

sati mūle tadvipāko jātyāyurbhogāḥ ॥ 13॥

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ॥ 14॥

pariṇāmatāpasaṃskāraduḥkhairguṇavṛttivirodhācca

duḥkhameva sarvaṃ vivekinaḥ ॥ 15॥

heyaṃ duḥkhamanāgatam ॥ 16॥

draṣṭṛdṛśyayoḥ saṃyogo heyahetuḥ ॥ 17॥

prakāśakriyāsthitiśīlaṃ bhūtendriyātmakaṃ

bhogāpavargārthaṃ dṛśyam ॥ 18॥

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥ 19॥

draṣṭā dṛśimātraḥ śuddho’pi pratyayānupaśyaḥ ॥ 20॥

tadartha eva dṛśyasyātmā ॥ 21॥

kṛtārthaṃ prati naṣṭamapyanaṣṭaṃ tadanyasādhāraṇatvāt ॥ 22॥

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṃyogaḥ ॥ 23॥

tasya heturavidyā ॥ 24॥

tadabhāvāt saṃyogābhāvo hānaṃ taddṛśeḥ kaivalyam ॥ 25॥

vivekakhyātiraviplavā hānopāyaḥ ॥ 26॥

tasya saptadhā prāntabhūmiḥ prajñā ॥ 27॥

yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ ॥ 28॥

yogāṅgānuṣṭhānād aśuddhikṣaye jñānadīptirā vivekakhyāteḥ ॥ 28॥

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo’ṣṭāvaṅgāni ॥ 29॥

ahiṃsāsatyāsteyabrahmacaryāparigrahā yamāḥ ॥ 30॥

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ॥ 31॥

śaucasaṃtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ॥ 32॥

vitarkabādhane pratipakṣabhāvanam ॥ 33॥

vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā

mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥ 34॥

ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ ॥ 35॥

satyapratiṣṭhāyāṃ kriyāphalāśrayatvam ॥ 36॥

asteyapratiṣṭhāyāṃ sarvaratnopasthānam ॥ 37॥

brahmacaryapratiṣṭhāyāṃ vīryalābhaḥ ॥ 38॥

aparigrahasthairye janmakathaṃtāsambodhaḥ ॥ 39॥

śaucāt svāṅgajugupsā parairasaṃsargaḥ ॥ 40॥

sattvaśuddhisaumanasyaikāgryendriyajayātmadarśana-yogyatvāni ca ॥ 41॥

saṃtoṣādanuttamasukhalābhaḥ ॥ 42॥

kāyendriyasiddhiraśuddhikṣayāt tapasaḥ ॥ 43॥

svādhyāyād iṣṭadevatāsamprayogaḥ ॥ 44॥

samādhisiddhirīśvarapraṇidhānāt ॥ 45॥

sthirasukham āsanam ॥ 46॥

prayatnaśaithilyānantasamāpattibhyām ॥ 47॥

tato dvandvānabhighātaḥ ॥ 48॥

tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ॥ 49॥

sa tu bāhyābhyantarastambhavṛttirdeśakālasaṃkhyābhiḥ

paridṛṣṭo dīrghasūkṣmaḥ ॥ 50॥

bāhyābhyantaraviṣayākṣepī caturthaḥ ॥ 51॥

tataḥ kṣīyate prakāśāvaraṇam ॥ 52॥

dhāraṇāsu ca yogyatā manasaḥ ॥ 53॥

svaviṣayāsamprayoge cittasvarūpānukāra ivendriyāṇāṃ pratyāhāraḥ ॥ 54॥

tataḥ paramā vaśyatendriyāṇām ॥ 55॥

॥ iti patañjaliviracite yogasūtre dvitīyaḥ sādhanapādaḥ ॥

 


॥ tṛtīyo’dhyāyaḥ ॥

॥ vibhūtipādaḥ ॥

deśabandhaścittasya dhāraṇā ॥ 1॥

tatra pratyayaikatānatā dhyānam ॥ 2॥

tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ॥ 3॥

trayamekatra saṃyamaḥ ॥ 4॥

tajjayātprajñālokaḥ ॥ 5॥

tasya bhūmiṣu viniyogaḥ ॥ 6॥

trayamantaraṅgaṃ pūrvebhyaḥ ॥ 7॥

tadapi bahiraṅgaṃ nirbījasya ॥ 8॥

vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau

nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ॥ 9॥

tasya praśāntavāhitā saṃskārāt ॥ 10॥

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ॥ 11॥

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ॥ 12॥

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥ 13॥

śāntoditāvyapadeśyadharmānupātī dharmī ॥ 14॥

kramānyatvaṃ pariṇāmānyatve hetuḥ ॥ 15॥

pariṇāmatrayasaṃyamād atītānāgatajñānam ॥ 16॥

śabdārthapratyayānāmitaretarādhyāsāt

saṅkarastatpravibhāgasaṃyamātsarvabhūtarutajñānam ॥ 17॥

saṃskārasākṣātkaraṇātpūrvajātijñānam ॥ 18॥

pratyayasya paracittajñānam ॥ 19॥

na ca tatsālambanaṃ tasyāviṣayībhūtatvāt ॥ 20॥

kāyarūpasaṃyamāttadgrāhyaśaktistambhe

cakṣuḥprakāśāsamprayoge’ntardhānam ॥ 21॥

sopakramaṃ nirupakramaṃ ca karma

tatsaṃyamādaparāntajñānamariṣṭebhyo vā ॥ 22॥

maitryādiṣu balāni ॥ 23॥

baleṣu hastibalādīni ॥ 24॥

pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ॥ 25॥

bhuvanajñānaṃ sūrye saṃyamāt ॥ 26॥

candre tārāvyūhajñānam ॥ 27॥

dhruve tadgatijñānam ॥ 28॥

nābhicakre kāyavyūhajñānam ॥ 29॥

kaṇṭhakūpe kṣutpipāsānivṛttiḥ ॥ 30॥

kūrmanāḍyāṃ sthairyam ॥ 31॥

mūrdhajyotiṣi siddhadarśanam ॥ 32॥

prātibhādvā sarvam ॥ 33॥

hṛdaye cittasaṃvit ॥ 34॥

sattvapuruṣayoratyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ

parārthatvātsvārthasaṃyamātpuruṣajñānam ॥ 35॥

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ॥ 36॥

te samādhāvupasargā vyutthāne siddhayaḥ ॥ 37॥

bandhakāraṇaśaithilyātpracārasaṃvedanācca

cittasya paraśarīrāveśaḥ ॥ 38॥

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥ 39॥

samānajayājjvalanam ॥ 40॥

śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram ॥ 41॥

kāyākāśayoḥ sambandhasaṃyamāllaghutūla-

samāpatteścākāśagamanam ॥ 42॥

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ॥ 43॥

sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ ॥ 44॥

tato’ṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca ॥ 45॥

rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ॥ 46॥

grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ॥ 47॥

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ॥ 48॥

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ

sarvajñātṛtvaṃ ca ॥ 49॥

tadvairāgyādapi doṣabījakṣaye kaivalyam ॥ 50॥

sthānyupanimantraṇe saṅgasmayākaraṇaṃ punaraniṣṭaprasaṅgāt ॥ 51॥

kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam ॥ 52॥

jātilakṣaṇadeśairanyatānavacchedāt tulyayostataḥ pratipattiḥ ॥ 53॥

tārakaṃ sarvaviṣayaṃ sarvathāviṣayam akramaṃ

ceti vivekajaṃ jñānam ॥ 54॥

sattvapuruṣayoḥ śuddhisāmye kaivalyamiti ॥ 55॥

॥ iti patañjaliviracite yogasūtre tṛtīyo vibhūtipādaḥ ॥

 


॥ kaivalyapādaḥ ॥

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ॥ 1॥

jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥ 2॥

nimittamaprayojakaṃ prakṛtīnāṃ varaṇabhedastu

tataḥ kṣetrikavat ॥ 3॥

nirmāṇacittānyasmitāmātrāt ॥ 4॥

pravṛttibhede prayojakaṃ cittamekamanekeṣām ॥ 5॥

tatra dhyānajamanāśayam ॥ 6॥

karmāśuklākṛṣṇaṃ yoginastrividhamitareṣām ॥ 7॥

tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ॥ 8॥

jātideśakālavyavahitānāmapyānantaryaṃ smṛtisaṃskārayorekarūpatvāt ॥ 9॥

tāsāmanāditvaṃ cāśiṣo nityatvāt ॥ 10॥

hetuphalāśrayālambanaiḥ saṃgṛhītatvādeṣāmabhāve tadabhāvaḥ ॥ 11॥

atītānāgataṃ svarūpato’styadhvabhedāddharmāṇām ॥ 12॥

te vyaktasūkṣmā guṇātmānaḥ ॥ 13॥

pariṇāmaikatvādvastutattvam ॥ 14॥

vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ॥ 15॥

na caikacittatantraṃ vastu tadapramāṇakaṃ tadā kiṃ syāt ॥ 16॥

taduparāgāpekṣitvāccittasya vastu jñātājñātam ॥ 17॥

sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt ॥ 18॥

na tatsvābhāsaṃ dṛśyatvāt ॥ 19॥

ekasamaye cobhayānavadhāraṇam ॥ 20॥

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṅkaraśca ॥ 21॥

citerapratisaṃkramāyāstadākārāpattau svabuddhisaṃvedanam ॥ 22॥

draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham ॥ 23॥

tadasaṃkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt ॥ 24॥

viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ ॥ 25॥

tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam ॥ 26॥

tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ ॥ 27॥

hānameṣāṃ kleśavaduktam ॥ 28॥

prasaṃkhyāne’pyakusīdasya sarvathā

vivekakhyāterdharmameghaḥ samādhiḥ ॥ 29॥

tataḥ kleśakarmanivṛttiḥ ॥ 30॥

tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam ॥ 31॥

tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām ॥ 32॥

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ॥ 33॥

puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ

svarūpapratiṣṭhā vā citiśaktiriti ॥ 34॥

॥ iti patañjaliviracite yogasūtre caturthaḥ kaivalyapādaḥ ॥

॥ pātañjalayogasūtrāṇi ॥

॥ śrī pātañjalayogasūtrāṇi ॥

॥ maharṣi patañjali praṇītaṃ yogadarśanam ॥

Йога-сутра: деконструкция текста

Выступление Андрея Сафронова на заседании Востоковедческого кружка Киево-Могилянской академии

Тайм-коды лекции

00:02:52 — Путаница, связанная с текстом

00:05:02Европейская история Йога-сутры

00:06:50 — Перевод Йога-сутры и Раджамартанды Баллентайном

00:09:12 — Перевод Йога-сутры и Йога-Бхашьи Вудсом

00:15:52 — Классические комментарии к Йога-сутре

00:16:35 — “Китаб Патанджала” — перевод Йога-сутры Аль-Бируни на персидский язык

00:19:19 — “Дхарма Патанджали” — яванский манускрипт

00:19:51 — Переводы Йога-сутры на английский язык

00:20:25 — Переводы Йога-сутры на русский язык

00:21:11 — Датировка Йога-сутры

00:24:55 — Авторство Йога-сутры

00:31:20 — Сбои логики Йога-сутры. Примеры

00:36:31 — Некорректные определения в Йога-сутре и логические противоречия 

00:41:30 — Обозначение одного слова разными понятиями

 00:43:17 — Дублирование определений

00:43:47 — “Висячие” строки и фрагменты

00:45:00 — Противоречия в соседних строках

00:46:17 — Фрагменты текста, датированные разным временем

00:49:56 — Первый фрагмент “Интеллектуальная эмпирическая йога”

00:51:03 — Второй фрагмент “Субстанциональный мистицизм”

00:52:31 — Третий фрагмент — “8-частная Йога”

00:53:32 — Четвертый фрагмент — шаманская “Героическая” вставка

00:54:50 — Последний фрагмент — Четвертая Глава

00:55:22 — Поиск аналогий в других текстах. Традиция Драштара

00:57:40 — Поиск аналогий в других текстах. Традиция Пуруши

01:00:26 — Поиск аналогий в других текстах. Традиция экаграты

01:03:08 — Поиск аналогий в других текстах. Традиция 8-частной йоги

01:09:09 — “Героический” фрагмент

01:09:49 — “Вкрапления” в Йога-сутре из других традиций

01:11:38 — Определение термина «асана» как пример источника вкрапления

01:13:38 — Буддийские вставки в Йога-сутру

 01:19:04 — Комментаторы сутры, базирующиеся на знаниях конкретных традиций

01:19:59 — Теория двух самадхи Вьясы

01:21:06 — Представление текста Йога-сутры и комментария к нему Андрея Сафронова

01:30:58 — Вопросы к лекции

Таблица нюансов первых пяти переводов Йога-сутры

Причины сложностей в переводе определения йоги в Йога-сутре:

«Сейчас ясно, что вритти Патанджали (те, которые «читта-вритти-ниродха») — это когнитивные искажения, а их контроль (ниродха) — достижение адекватности восприятия. Однако самому термину «когнитивные искажения» всего 50 лет. До этого не существовало методологии, которая адекватно бы описывала этот круг феноменов. Соответственно, первые переводчики Йога-сутры не имели подходящих слов и аппарата для перевода базовых терминов йоги. Это привело к ряду искажений в восприятии смысла Йога-сутры, последствия которого мы видим в популярной «йоге»». «Записки на полях древних текстов»

читта-вритти-ниродха

Переводы Йога-сутры