библиотека йоги

घेरण्डसंहिता

Оригінал тексту Гхеранда-самхіти на санскриті двома способами запису — в деванагарі й транслітерацією IAST.


Переклад деяких рядків Гхеранда-самхіти можна знайти в книзі «Йоґа: історія ідей і поглядів».
Повний переклад Гхеранда-самхіти російською мовою здійснив А. Ригін, англійською — Дж.Малінсон.

॥ श्रीगणेशाय नमः॥

मङ्गलाचरणम् ।

आदीश्वराय प्रणमामि तस्मै येनोपदिष्टा हठयोगविद्या ।

विभ्राजते प्रोन्नतराजयोगमारोढुमिच्छोरधिरोहिणीव ॥

॥ śrīgaṇeśāya namaḥ॥

maṅgalācaraṇam ।

ādīśvarāya praṇamāmi tasmai yenopadiṣṭā haṭhayogavidyā ।

vibhrājate pronnatarāja-yogamāroḍhumicchoradhirohiṇīva ॥

षट्कर्मशोधनं नाम प्रथमोपदेशः

अथ घटस्थयोगकथनम् ।

एकदा चण्डकापालिर्गत्वा घेरण्डकुट्टिरम् ।

प्रणम्य विनयाद्भक्त्या घेरण्डं परिपृच्छति ॥ १॥

श्रीचण्डकापालिरुवाच ।

घटस्थयोगं योगेश तत्त्वज्ञानस्य कारणम् ।

इदानीं श्रोतुमिच्छामि योगेश्वर वद प्रभो ॥ २॥

घेरण्ड उवाच ।

साधु साधु महाबाहो यन्मां त्वं परिपृच्छसि ।

कथयामि हि ते वत्स सावधानावधारय ॥ ३॥

नास्ति मायासमः पाशो नास्ति योगात्परं बलम् ।

नास्ति ज्ञानात्परो बन्धुर्नाहङ्कारात्परो रिपुः ॥ ४॥

अभ्यासात्कादिवर्णानां यथा शास्त्राणि बोधयेत् ।

तथा योगं समासाद्य तत्त्वज्ञानं च लभ्यते ॥ ५॥

सुकृतैर्दुष्कृतैः कार्यैर्जायते प्राणिनां घटः ।

घटादुत्पद्यते कर्म घटीयन्त्रं यथा भ्रमेत् ॥ ६॥

ऊर्ध्वाधो भ्रमते यद्वद्घटीयन्त्रं गवां वशात् ।

तद्वत्कर्मवशाज्जीवो भ्रमते जन्ममृत्युभिः ॥ ७॥

आमं कुम्भमिवाम्भस्थो जीर्यमाणः सदा घटः ।

योगानलेन सन्दह्य घटशुद्धिं समाचरेत् ॥ ८॥

अथ सप्तसाधनम् ।

शोधनं दृढता चैव स्थैर्यं धैर्यं च लाघवम् ।

प्रत्यक्षं च निर्लिप्तं च घटस्थसप्तसाधनम् ॥ ९॥

अथ सप्तसाधनलक्षणम् ।

षट्कर्मणा शोधनं च आसनेन भवेद्दृढम् ।

मुद्रया स्थिरता चैव प्रत्याहारेण धीरता ॥ १०॥

प्राणायामाल्लाघवं च ध्यानात्प्रत्यक्षमात्मनः ।

समाधिना निर्लिप्तं च मुक्तिरेव न संशयः ॥ ११॥

अथ शोधनम् ।

धौतिर्बस्तिस्तथा नेतिर्नौलिकी त्राटकं तथा ।

कपालभातिश्चैतानि षट्कर्माणि समाचरेत् ॥ १२॥

अथ धौतिः ।

अन्तर्धौतिर्दन्तधौतिर्हृद्धौतिर्मूलशोधनम् ।

धौतिं चतुर्विधां कृत्वा घटं कुर्वन्ति निर्मलम् ॥ १३॥

अथान्तर्धौतिः ।

वातसारं वारिसारं वह्निसारं बहिष्कृतम् ।

घटस्य निर्मलार्थाय ह्यन्तर्धौतिश्चतुर्विधा ॥ १४॥

अथ वातसारः ।

काकचञ्चूवदास्येन पिबेद्वायुं शनैः शनैः ।

चालयेदुदरं पश्चाद्वर्त्मना रेचयेच्छनैः ॥ १५॥

वातसारं परं गोप्यं देहनिर्मलकारणम् ।

सर्वरोगक्षयकरं देहानलविवर्धकम् ॥ १६॥

अथ वारिसारः ।

आकण्ठं पूरयेद्वारि वक्त्रेण च पिबेच्छनैः ।

चालयेदुदरेणैव चोदराद्रेचयेदधः ॥ १७॥

वारिसारं परं गोप्यं देहनिर्मलकारकम् ।

साधयेद्यः प्रयत्नेन देवदेहं प्रपद्यते ॥ १८॥

वारिसारं परां धौतिं साधयेद्यः प्रयत्नतः ।

मलदेहं शोधयित्वा देवदेहं प्रपद्यते ॥ १९॥

अथ अग्निसारः ।

नाभिग्रन्थिं मेरुपृष्ठे शतवारं च कारयेत् ।

उदरामयजं त्यक्त्वा जाठराग्निं विवर्धयेत् ॥ २०॥

अग्निसारमियं धौतिर्योगिनां योगसिद्धिदा ।

एषा धौतिः परा गोप्या देवानामपि दुर्लभा ।

केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥ २१॥

अथ बहिष्कृतधौतिः ।

काकीमुद्रां साधयित्वा पूरयेदुदरं मरुत् ।

धारयेदर्धयामं तु चालयेदर्धवर्त्मना ।

एषा धौतिः परा गोप्या न प्रकाश्या कदाचन ॥ २२॥

अथ प्रक्षालनम् ।

नाभिदघ्ने जले स्थित्वा शक्तिनाडीं विसर्जयेत् ।

कराभ्यां क्षालयेन्नाडीं यावन्मलविसर्जनम् ।

तावत्प्रक्षाल्य नाडीं च उदरे वेशयेत्पुनः ॥ २३॥

इदं प्रक्षालनं गोप्यं देवानामपि दुर्लभम् ।

केवलं धौतिमात्रेण देवदेहो भवेद्ध्रुवम् ॥ २४॥

बहिष्कृतधौतिप्रयोगः ।

यामार्धधारणाशक्तिं यावन्न साधयेन्नरः ।

बहिष्कृतं महद्धौतिस्तावच्चैव न जायते ॥ २५॥

अथ दन्तधौतिः ।

दन्तमूलं जिह्वामूलं रन्ध्रं च कर्णयुग्मयोः ।

कपालरन्ध्रं पञ्चैते दन्तधौतिं विधीयते ॥ २६॥

अथ दन्तमूलधौतिः ।

खादिरेण रसेनाथ मृत्तिकया च शुद्धया ।

मार्जयेद्दन्तमूलं च यावत्किल्बिषमाहरेत् ॥ २७॥

दन्तमूलं परा धौतिर्योगिनां योगसाधने ।

नित्यं कुर्यात्प्रभाते च दन्तरक्षाय योगवित् ।

दन्तमूलं धावनादिकार्येषु योगिनां मतम् ॥ २८॥

अथ जिह्वाशोधनम् ।

अथातः संप्रवक्ष्यामि जिह्वाशोधनकारणम् ।

जरामरणरोगादीन्नाशयेद्दीर्घलम्बिका ॥ २९॥

अथ जिह्वामूलधौतिप्रयोगः ।

तर्जनीमध्यमाऽनामा अङ्गुलित्रययोगतः ।

वेशयेद्गलमध्ये तु मार्जयेल्लम्बिकामूलम् ।

शनैः शनैर्मार्जयित्वा कफदोषं निवारयेत् ॥ ३०॥

मार्जयेन्नवनीतेन दोहयेच्च पुनः पुनः ।

तदग्रं लोहयन्त्रेण कर्षयित्वा शनैः शनैः ॥ ३१॥

नित्यं कुर्यात्प्रयत्नेन रवेरुदयकेऽस्तके ।

एवं कृते च नित्यं सा लम्बिका दीर्घतां व्रजेत् ॥ ३२॥

अथ कर्णधौतिप्रयोगः ।

तर्जन्यङ्गुल्यकाग्रेण मार्जयेत्कर्णरन्ध्रयोः ।

नित्यमभ्यासयोगेन नादान्तरं प्रकाशयेत् ॥ ३३॥

अथ कपालरन्ध्रप्रयोगः ।

वृद्धाङ्गुष्ठेन दक्षेण मर्दयेद्भालरन्ध्रकम् ।

एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ ३४॥

नाडी निर्मलतां याति दिव्यदृष्टिः प्रजायते ।

निद्रान्ते भोजनान्ते च दिवान्ते च दिने दिने ॥ ३५॥

अथ हृद्धौतिः ।

हृद्धौतिं त्रिविधां कुर्याद्दण्डवमनवाससा ॥ ३६॥

अथ दण्डधौतिः ।

रम्भादण्डं हरिद्दण्डं वेत्रदण्डं तथैव च ।

हृन्मध्ये चालयित्वा तु पुनः प्रत्याहरेच्छनैः ॥ ३७॥

कफपित्तं तथा क्लेदं रेचयेदूर्ध्ववर्त्मना ।

दण्डधौतिविधानेन हृद्रोगं नाशयेद्ध्रुवम् ॥ ३८॥

अथ वमनधौतिः ।

भोजनान्ते पिबेद्वारि चाऽऽकण्ठपूरितं सुधीः ।

ऊर्ध्वां दृष्टिं क्षणं कृत्वा तज्जलं वमयेत्पुनः ।

नित्यमभ्यासयोगेन कफपित्तं निवारयेत् ॥ ३९॥

अथ वासोधौतिः ।

एकोनविंशतिः हस्तः पञ्चविंशति वै तथा ।

चतुरङ्गुलविस्तारं सूक्ष्मवस्त्रं शनैर्ग्रसेत् ।

पुनः प्रत्याहरेदेतत्प्रोच्यते धौतिकर्मकम् ॥ ४०॥

गुल्मज्वरप्लीहाकुष्ठकफपित्तं विनश्यति ।

आरोग्यं बलपुष्टिश्च भवेत्तस्य दिने दिने ॥ ४१॥

अथ मूलशोधनम् ।

अपानक्रूरता तावद्यावन्मूलं न शोधयेत् ।

तस्मात्सर्वप्रयत्नेन मूलशोधनमाचरेत् ॥ ४२॥

पीतमूलस्य दण्डेन मध्यमाङ्गुलिनाऽपि वा ।

यत्नेन क्षालयेद्गुह्यं वारिणा च पुनः पुनः ॥ ४३॥

वारयेत्कोष्ठकाठिन्यमामाजीर्णं निवारयेत् ।

कारणं कान्तिपुष्ठ्योश्च वह्निमण्डलदीपनम् ॥ ४४॥

अथ बस्तिप्रकरणम् ।

जलबस्तिः शुष्कबस्तिर्बस्तिः स्याद्द्विविधा स्मृता ।

जलबस्तिं जले कुर्याच्छुष्कबस्तिं सदा क्षितौ ॥ ४५॥

अथ जलबस्तिः ।

नाभिमघ्नजले पायुं न्यस्तवानुत्कटासनम् ।

आकुञ्चनं प्रसारं च जलबस्तिं समाचरेत् ॥ ४६॥

प्रमेहं च उदावर्तं क्रूरवायुं निवारयेत् ।

भवेत्स्वच्छन्ददेहश्च कामदेवसमो भवेत् ॥ ४७॥

अथ शुष्कबस्तिः ।

बस्तिं पश्चिमोत्तानेन चालयित्वा शनैरधः ।

अश्विनीमुद्रया पायुमाकुञ्चयेत्प्रसारयेत् ॥ ४८॥

एवमभ्यासयोगेन कोष्ठदोषो न विद्यते ।

विवर्धयेज्जाठराग्निमामवातं विनाशयेत् ॥ ४९॥

अथ नेतियोगः ।

वितस्तिमानं सूक्ष्मसूत्रं नासानाले प्रवेशयेत् ।

मुखान्निर्गमयेत्पश्चात्प्रोच्यते नेतिकर्मकम् ॥ ५०॥

साधनान्नेतिकार्यस्य खेचरीसिद्धिमाप्नुयात् ।

कफदोषा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥ ५१॥

अथ लौकिकीयोगः ।

अमन्दवेगेन तुन्दं भ्रामयेदुभपार्श्वयोः ।

सर्वरोगान्निहन्तीह देहानलविवर्धनम् ॥ ५२॥

अथ त्राटकम् ।

निमेषोन्मेषकं त्यक्त्वा सूक्ष्मलक्ष्यं निरीक्षयेत् ।

यावदश्रूणि पतन्ति त्राटकं प्रोच्यते बुधैः ॥ ५३॥

एवमभ्यासयोगेन शाम्भवी जायते ध्रुवम् ।

नेत्ररोगा विनश्यन्ति दिव्यदृष्टिः प्रजायते ॥ ५४॥

अथ कपालभातिः ।

वातक्रमव्युत्क्रमेण शीत्क्रमेण विशेषतः ।

भालभातिं त्रिधा कुर्यात्कफदोषं निवारयेत् ॥ ५५॥

अथ वामक्रमकपालभातिः ।

इडया पूरयेद्वायुं रेचयेत्पिङ्गलां पुनः ।

पिङ्गलया पूरयित्वा पुनश्चन्द्रेण रेचयेत् ॥ ५६॥

पूरकं रेचकं कृत्वा वेगेन न तु धारयेत् ।

एवमभ्यासयोगेन कफदोषं निवारयेत् ॥ ५७॥

अथ व्युत्क्रमकपालभातिः ।

नासाभ्यां जलमाकृष्य पुनर्वक्त्रेण रेचयेत् ।

पायं पायं व्युत्क्रमेण श्लेष्मदोषं निवारयेत् ॥ ५८॥

अथ शीत्क्रमकपालभातिः ।

शीत्कृत्य पीत्वा वक्त्रेण नासानलैर्विरेचयेत् ।

एवमभ्यासयोगेन कामदेवसमो भवेत् ॥ ५९॥

न जायते वार्द्धकं च ज्वरो नैव प्रजायते ।

भवेत्स्वच्छन्ददेहश्च कफदोषं निवारयेत् ॥ ६०॥

ṣaṭkarmaśodhanaṃ nāma prathamopadeśaḥ

atha ghaṭasthayogakathanam ।

ekadā caṇḍakāpālirgatvā gheraṇḍakuṭṭiram ।

praṇamya vinayādbhaktyā gheraṇḍaṃ paripṛcchati ॥ 1॥

śrīcaṇḍakāpāliruvāca ।

ghaṭasthayogaṃ yogeśa tattvajñānasya kāraṇam ।

idānīṃ śrotumicchāmi yogeśvara vada prabho ॥ 2॥

gheraṇḍa uvāca ।

sādhu sādhu mahābāho yanmāṃ tvaṃ paripṛcchasi ।

kathayāmi hi te vatsa sāvadhānāvadhāraya ॥ 3॥

nāsti māyāsamaḥ pāśo nāsti yogātparaṃ balam ।

nāsti jñānātparo bandhurnāhaṅkārātparo ripuḥ ॥ 4॥

abhyāsātkādivarṇānāṃ yathā śāstrāṇi bodhayet ।

tathā yogaṃ samāsādya tattvajñānaṃ ca labhyate ॥ 5॥

sukṛtairduṣkṛtaiḥ kāryairjāyate prāṇināṃ ghaṭaḥ ।

ghaṭādutpadyate karma ghaṭīyantraṃ yathā bhramet ॥ 6॥

ūrdhvādho bhramate yadvadghaṭīyantraṃ gavāṃ vaśāt ।

tadvatkarmavaśājjīvo bhramate janmamṛtyubhiḥ ॥ 7॥

āmaṃ kumbhamivāmbhastho jīryamāṇaḥ sadā ghaṭaḥ ।

yogānalena sandahya ghaṭaśuddhiṃ samācaret ॥ 8॥

atha saptasādhanam ।

śodhanaṃ dṛḍhatā caiva sthairyaṃ dhairyaṃ ca lāghavam ।

pratyakṣaṃ ca nirliptaṃ ca ghaṭasthasaptasādhanam ॥ 9॥

atha saptasādhanalakṣaṇam ।

ṣaṭkarmaṇā śodhanaṃ ca āsanena bhaveddṛḍham ।

mudrayā sthiratā caiva pratyāhāreṇa dhīratā ॥ 10॥

prāṇāyāmāllāghavaṃ ca dhyānātpratyakṣamātmanaḥ ।

samādhinā nirliptaṃ ca muktireva na saṃśayaḥ ॥ 11॥

atha śodhanam ।

dhautirbastistathā netirnaulikī trāṭakaṃ tathā ।

kapālabhātiścaitāni ṣaṭkarmāṇi samācaret ॥ 12॥

atha dhautiḥ ।

antardhautirdantadhautirhṛddhautirmūlaśodhanam ।

dhautiṃ caturvidhāṃ kṛtvā ghaṭaṃ kurvanti nirmalam ॥ 13॥

athāntardhautiḥ ।

vātasāraṃ vārisāraṃ vahnisāraṃ bahiṣkṛtam ।

ghaṭasya nirmalārthāya hyantardhautiścaturvidhā ॥ 14॥

atha vātasāraḥ ।

kākacañcūvadāsyena pibedvāyuṃ śanaiḥ śanaiḥ ।

cālayedudaraṃ paścādvartmanā recayecchanaiḥ ॥ 15॥

vātasāraṃ paraṃ gopyaṃ dehanirmalakāraṇam ।

sarvarogakṣayakaraṃ dehānalavivardhakam ॥ 16॥

atha vārisāraḥ ।

ākaṇṭhaṃ pūrayedvāri vaktreṇa ca pibecchanaiḥ ।

cālayedudareṇaiva codarādrecayedadhaḥ ॥ 17॥

vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam ।

sādhayedyaḥ prayatnena devadehaṃ prapadyate ॥ 18॥

vārisāraṃ parāṃ dhautiṃ sādhayedyaḥ prayatnataḥ ।

maladehaṃ śodhayitvā devadehaṃ prapadyate ॥ 19॥

atha agnisāraḥ ।

nābhigranthiṃ merupṛṣṭhe śatavāraṃ ca kārayet ।

udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet ॥ 20॥

agnisāramiyaṃ dhautiryogināṃ yogasiddhidā ।

eṣā dhautiḥ parā gopyā devānāmapi durlabhā ।

kevalaṃ dhautimātreṇa devadeho bhaveddhruvam ॥ 21॥

atha bahiṣkṛtadhautiḥ ।

kākīmudrāṃ sādhayitvā pūrayedudaraṃ marut ।

dhārayedardhayāmaṃ tu cālayedardhavartmanā ।

eṣā dhautiḥ parā gopyā na prakāśyā kadācana ॥ 22॥

atha prakṣālanam ।

nābhidaghne jale sthitvā śaktināḍīṃ visarjayet ।

karābhyāṃ kṣālayennāḍīṃ yāvanmalavisarjanam ।

tāvatprakṣālya nāḍīṃ ca udare veśayetpunaḥ ॥ 23॥

idaṃ prakṣālanaṃ gopyaṃ devānāmapi durlabham ।

kevalaṃ dhautimātreṇa devadeho bhaveddhruvam ॥ 24॥

bahiṣkṛtadhautiprayogaḥ ।

yāmārdhadhāraṇāśaktiṃ yāvanna sādhayennaraḥ ।

bahiṣkṛtaṃ mahaddhautistāvaccaiva na jāyate ॥ 25॥

atha dantadhautiḥ ।

dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ ।

kapālarandhraṃ pañcaite dantadhautiṃ vidhīyate ॥ 26॥

atha dantamūladhautiḥ ।

khādireṇa rasenātha mṛttikayā ca śuddhayā ।

mārjayeddantamūlaṃ ca yāvatkilbiṣamāharet ॥ 27॥

dantamūlaṃ parā dhautiryogināṃ yogasādhane ।

nityaṃ kuryātprabhāte ca dantarakṣāya yogavit ।

dantamūlaṃ dhāvanādikāryeṣu yogināṃ matam ॥ 28॥

atha jihvāśodhanam ।

athātaḥ saṃpravakṣyāmi jihvāśodhanakāraṇam ।

jarāmaraṇarogādīnnāśayeddīrghalambikā ॥ 29॥

atha jihvāmūladhautiprayogaḥ ।

tarjanīmadhyamā’nāmā aṅgulitrayayogataḥ ।

veśayedgalamadhye tu mārjayellambikāmūlam ।

śanaiḥ śanairmārjayitvā kaphadoṣaṃ nivārayet ॥ 30॥

mārjayennavanītena dohayecca punaḥ punaḥ ।

tadagraṃ lohayantreṇa karṣayitvā śanaiḥ śanaiḥ ॥ 31॥

nityaṃ kuryātprayatnena raverudayake’stake ।

evaṃ kṛte ca nityaṃ sā lambikā dīrghatāṃ vrajet ॥ 32॥

atha karṇadhautiprayogaḥ ।

tarjanyaṅgulyakāgreṇa mārjayetkarṇarandhrayoḥ ।

nityamabhyāsayogena nādāntaraṃ prakāśayet ॥ 33॥

atha kapālarandhraprayogaḥ ।

vṛddhāṅguṣṭhena dakṣeṇa mardayedbhālarandhrakam ।

evamabhyāsayogena kaphadoṣaṃ nivārayet ॥ 34॥

nāḍī nirmalatāṃ yāti divyadṛṣṭiḥ prajāyate ।

nidrānte bhojanānte ca divānte ca dine dine ॥ 35॥

atha hṛddhautiḥ ।

hṛddhautiṃ trividhāṃ kuryāddaṇḍavamanavāsasā ॥ 36॥

atha daṇḍadhautiḥ ।

rambhādaṇḍaṃ hariddaṇḍaṃ vetradaṇḍaṃ tathaiva ca ।

hṛnmadhye cālayitvā tu punaḥ pratyāharecchanaiḥ ॥ 37॥

kaphapittaṃ tathā kledaṃ recayedūrdhvavartmanā ।

daṇḍadhautividhānena hṛdrogaṃ nāśayeddhruvam ॥ 38॥

atha vamanadhautiḥ ।

bhojanānte pibedvāri cā”kaṇṭhapūritaṃ sudhīḥ ।

ūrdhvāṃ dṛṣṭiṃ kṣaṇaṃ kṛtvā tajjalaṃ vamayetpunaḥ ।

nityamabhyāsayogena kaphapittaṃ nivārayet ॥ 39॥

atha vāsodhautiḥ ।

ekonaviṃśatiḥ hastaḥ pañcaviṃśati vai tathā ।

caturaṅgulavistāraṃ sūkṣmavastraṃ śanairgraset ।

punaḥ pratyāharedetatprocyate dhautikarmakam ॥ 40॥

gulmajvaraplīhākuṣṭhakaphapittaṃ vinaśyati ।

ārogyaṃ balapuṣṭiśca bhavettasya dine dine ॥ 41॥

atha mūlaśodhanam ।

apānakrūratā tāvadyāvanmūlaṃ na śodhayet ।

tasmātsarvaprayatnena mūlaśodhanamācaret ॥ 42॥

pītamūlasya daṇḍena madhyamāṅgulinā’pi vā ।

yatnena kṣālayedguhyaṃ vāriṇā ca punaḥ punaḥ ॥ 43॥

vārayetkoṣṭhakāṭhinyamāmājīrṇaṃ nivārayet ।

kāraṇaṃ kāntipuṣṭhyośca vahnimaṇḍaladīpanam ॥ 44॥

atha bastiprakaraṇam ।

jalabastiḥ śuṣkabastirbastiḥ syāddvividhā smṛtā ।

jalabastiṃ jale kuryācchuṣkabastiṃ sadā kṣitau ॥ 45॥

atha jalabastiḥ ।

nābhimaghnajale pāyuṃ nyastavānutkaṭāsanam ।

ākuñcanaṃ prasāraṃ ca jalabastiṃ samācaret ॥ 46॥

pramehaṃ ca udāvartaṃ krūravāyuṃ nivārayet ।

bhavetsvacchandadehaśca kāmadevasamo bhavet ॥ 47॥

atha śuṣkabastiḥ ।

bastiṃ paścimottānena cālayitvā śanairadhaḥ ।

aśvinīmudrayā pāyumākuñcayetprasārayet ॥ 48॥

evamabhyāsayogena koṣṭhadoṣo na vidyate ।

vivardhayejjāṭharāgnimāmavātaṃ vināśayet ॥ 49॥

atha netiyogaḥ ।

vitastimānaṃ sūkṣmasūtraṃ nāsānāle praveśayet ।

mukhānnirgamayetpaścātprocyate netikarmakam ॥ 50॥

sādhanānnetikāryasya khecarīsiddhimāpnuyāt ।

kaphadoṣā vinaśyanti divyadṛṣṭiḥ prajāyate ॥ 51॥

atha laukikīyogaḥ ।

amandavegena tundaṃ bhrāmayedubhapārśvayoḥ ।

sarvarogānnihantīha dehānalavivardhanam ॥ 52॥

atha trāṭakam ।

nimeṣonmeṣakaṃ tyaktvā sūkṣmalakṣyaṃ nirīkṣayet ।

yāvadaśrūṇi patanti trāṭakaṃ procyate budhaiḥ ॥ 53॥

evamabhyāsayogena śāmbhavī jāyate dhruvam ।

netrarogā vinaśyanti divyadṛṣṭiḥ prajāyate ॥ 54॥

atha kapālabhātiḥ ।

vātakramavyutkrameṇa śītkrameṇa viśeṣataḥ ।

bhālabhātiṃ tridhā kuryātkaphadoṣaṃ nivārayet ॥ 55॥

atha vāmakramakapālabhātiḥ ।

iḍayā pūrayedvāyuṃ recayetpiṅgalāṃ punaḥ ।

piṅgalayā pūrayitvā punaścandreṇa recayet ॥ 56॥

pūrakaṃ recakaṃ kṛtvā vegena na tu dhārayet ।

evamabhyāsayogena kaphadoṣaṃ nivārayet ॥ 57॥

atha vyutkramakapālabhātiḥ ।

nāsābhyāṃ jalamākṛṣya punarvaktreṇa recayet ।

pāyaṃ pāyaṃ vyutkrameṇa śleṣmadoṣaṃ nivārayet ॥ 58॥

atha śītkramakapālabhātiḥ ।

śītkṛtya pītvā vaktreṇa nāsānalairvirecayet ।

evamabhyāsayogena kāmadevasamo bhavet ॥ 59॥

na jāyate vārddhakaṃ ca jvaro naiva prajāyate ।

bhavetsvacchandadehaśca kaphadoṣaṃ nivārayet ॥ 60॥

इति श्रीघेरण्डसंहितायां महर्षिघेरण्डनृपचण्डकापालिसंवादे

घटस्थयोगे षट्कर्मशोधनं नाम प्रथमोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ maharṣigheraṇḍanṛpacaṇḍakāpālisaṃvāde

ghaṭasthayoge ṣaṭkarmaśodhanaṃ nāma prathamopadeśaḥ oṃ ॥

घटस्थयोगे द्वात्रिंशासनवर्णनम्

घेरण्ड उवाच ।

अभ्यासाद्यस्य देहेऽयं योगौपयिकतां व्रजेत् ।

मनश्च स्थिरतामेति प्रोच्यते तदिहाऽऽसनम् ॥ १॥

आसनानि समस्तानि यावन्तो जीवजन्तवः ।

चतुरशीतिलक्षाणि शिवेन कथितानि च ॥ २॥

तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् ।

तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥ ३॥

सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् ।

सिंहं च गोमुखं वीरं धनुरासनमेव च ॥ ४॥

मृतं गुप्तं तथा मात्स्यं मत्स्येन्द्रासनमेव च ।

गोरक्षं पश्चिमोत्तानमुत्कटं सङ्कटं तथा ॥ ५॥

मयूरं कुक्कुटं कूर्मं तथा चोत्तानकूर्मकम् ।

उत्तानमण्डूकं वृक्षं मण्डूकं गरुडं वृषम् ॥ ६॥

शलभं मकरं चोष्ट्रं भुजङ्गं च योगासनम् ।

द्वात्रिंशदासनानि तु मर्त्यलोके हि सिद्धिदम् ॥ ७॥

अथ सिद्धासनम् ।

योनिस्थानकमङ्घ्रिमूलघटितं सम्पीड्य गुल्फेतरं

मेढ्रोपर्यथ संनिधाय चिबुकं कृत्वा हृदि स्थापितम् ।

स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्भ्रुवोरन्तरे

एवं मोक्षविधायते फलकरं सिद्धासनं प्रोच्यते ॥ ८॥

अथ पद्मासनम् ।

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा

दक्षोरूपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ।

अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकये-

देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥ ९॥

अथ भद्रासनम् ।

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितः ।

पादाङ्गुष्ठौ कराभ्यां च धृत्वा च पृष्ठदेशतः ॥ १०॥

जालन्धरं समासाद्य नासाग्रमवलोकयेत् ।

भद्रासनं भवेदेतत्सर्वव्याधिविनाशकम् ॥ ११॥

अथ मुक्तासनम् ।

पायुमूले वामगुल्फं दक्षगुल्फं तथोपरि ।

समकायशिरोग्रीवं मुक्तासनं तु सिद्धिदम् ॥ १२॥

अथ वज्रासनम् ।

जङ्घाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ ।

वज्रासनं भवेदेतद्योगिनां सिद्धिदायकम् ॥ १३॥

अथ स्वस्तिकासनम् ।

जानूर्वोरन्तरे कृत्वा योगी पादतले उभे ।

ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १४॥

अथ सिंहासनम् ।

गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतौ ।

चितिमूलौ भूमिसंस्थौ करौ च जानुनोपरि ॥ १५।

व्यक्तवक्त्रो जलन्धरं च नासाग्रमवलोकयेत् ।

सिंहासनं भवेदेतत्सर्वव्याधिविनाशकम् ॥ १६॥

अथ गोमुखासनम् ।

पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् ।

स्थिरकायं समासाद्य गोमुखं गोमुखाऽऽकृतिः ॥ १७॥

अथ वीरासनम् ।

एकपादमथैकस्मिन्विन्यसेदूरुसंस्थितम् ।

इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् ॥ १८॥

अथ धनुरासनम् ।

प्रसार्य पादौ भुवि दण्डरूपौ

करौ च पृष्ठे धृतपादयुग्मम् ।

कृत्वा धनुस्तुल्यपरिवर्तिताङ्गं

निगद्य योगी धनुरासनं तत् ॥ १९॥

अथ मृतासनम् ।

उत्तानं शववद्भूमौ शयानं तु शवासनम् ।

शवासनं श्रमहरं चित्तविश्रान्तिकारणम् ॥ २०॥

अथ गुप्तासनम् ।

जानूर्वोरन्तरे पादौ कृत्वा पादौ च गोपयेत् ।

पादोपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥ २१॥

अथ मत्स्यासनम् ।

मुक्तपद्मासनं कृत्वा उत्तानशयनं चरेत् ।

कूर्पराभ्यां शिरो वेष्ट्यं मत्स्यासनं तु रोगहा ॥ २२॥

अथ मात्स्येन्द्रासनम् ।

उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः ।

नम्राङ्गं वामपादं हि दक्षजानूपरि न्यसेत् ॥ २३॥

तत्र याम्यं कूर्परं च याम्यकरे च वक्त्रकम् ।

भ्रुवोर्मध्ये गता दृष्टिः पीठं मात्स्येन्द्रमुच्यते ।

मत्स्येन्द्रपीठं जठराग्निदीप्तं कुर्याद्रोगं च ज्वरा विनाशनम् ॥ २४॥

अथ पश्चिमोत्तानासनम् ।

प्रसार्य पादौ भुवि दण्डरूपौ

संन्यस्तभालं चितियुग्ममध्ये ।

यत्नेन पादौ च धृतौ कराभ्यां

योगीन्द्रपीठं पश्चिमोत्तानमाहुः ॥ २५॥

अथ गोरक्षासनम् ।

जानूर्वोरन्तरे पादौ उत्तानौ व्यक्तसंस्थितौ ।

गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥ २६॥

कण्ठसङ्कोचनं कृत्वा नासाग्रमवलोकयेत् ।

गोरक्षासनमित्याहुर्योगिनां सिद्धिकारणम् ॥ २७॥

अथोत्कटासनम् ।

अङ्गुष्ठाभ्यामवष्टभ्य धरां गुल्फौ च खे गतौ ।

तत्रोपरि गुदं न्यसेद्विज्ञेयमुत्कटासनम् ॥ २८॥

अथ सङ्कटासनम् ।

वामपादचितेर्मूलं विन्यस्य धरणीतले ।

पाददण्डेन याम्येन वेष्टयेद्वामपादकम् ।

जानुयुग्मे करयुग्ममेतत्सङ्कटमासनम् ॥ २९॥

अथ मयूरासनम् ।

धरामवष्टभ्य करयोस्तलाभ्यां तत्कूर्परे स्थापितनाभिपार्श्वम् ।

उच्चासनो दण्डवदुत्थितः खे मयूरमेतत्प्रवदन्ति पीठम् ॥ ३०॥

बहुकदशनभुक्तं भस्म कुर्यादशेषं जनयति जठराग्निं जारयेत्कालकूटम् ।

हरति सकलरोगानाशु गुल्मज्वरादीन् भवति विगतदोषं ह्यासनं श्रीमयूरम् ॥ ३१॥

अथ कुक्कुटासनम् ।

पद्मासनं समासाद्य जानूर्वोरन्तरे करौ ।

कूर्पराभ्यां समासीनो उच्चस्थः कुक्कुटासनम् ॥ ३२॥

अथ कूर्मासनम् ।

गुल्फौ च वृषणस्याधो व्युत्क्रमेण समाहितौ ।

ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् ॥ ३३॥

अथोत्तनकूर्मासनम् ।

कुक्कुटासनबन्धस्थं कराभ्यां धृतकन्धरम् ।

पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मकम् ॥ ३४॥

अथ मण्डूकासनम् ।

पादतलौ पृष्ठदेशे अङ्गुष्ठे द्वे च संस्पृशेत् ।

जानुयुग्मं पुरस्कृत्य साधयेन्मण्डूकासनम् ॥ ३५॥

अथोत्तनमण्डूकासनम् ।

मण्डूकासनमध्यस्थं कूर्पराभ्यां धृतं शिरः ।

एतद्भेकवदुत्तानमेतदुत्तानमण्डूकम् ॥ ३६॥

अथ वृक्षासनम् ।

वामोरुमूलदेशे च याम्यं पादं निधाय तु ।

तिष्ठेत्तु वृक्षवद्भूमौ वृक्षासनमिदं विदुः ॥ ३७॥

अथ गरुडासनम् ।

जङ्घोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना ।

जानूपरि करयुग्मं गरुडासनमुच्यते ॥ ३८॥

अथ वृषासनम् ।

याम्यगुल्फे पायुमूलं वामभागे पदेतरम् ।

विपरीतं स्पृशेद्भूमिं वृषासनमिदं भवेत् ॥ ३९॥

अथ शलभासनम् ।

अध्यास्य शेते करयुग्मं वक्षे भूमिमवष्टभ्य करयोस्तलाभ्याम् ।

पादौ च शून्ये च वितस्ति चोर्ध्वं वदन्ति पीठं शलभं मुनीन्द्राः ॥ ४०॥

अथ मकरासनम् ।

अध्यास्य शेते हृदयं निधाय भूमौ च पादौ च प्रसार्यमाणौ ।

शिरश्च धृत्वा करदण्डयुग्मे देहाग्निकारं मकरासनं तत् ॥ ४१॥

अथोष्ट्रासनम् ।

अध्यास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् ।

आकुञ्चयेत्सम्यगुदरास्यगाढमौष्ट्रं च पीठं योगिनो वदन्ति ॥ ४२॥

अथ भुजङ्गासनम् ।

अङ्गुष्ठनाभिपर्यन्तमधोभूमौ विनिन्यसेत् ।

करतलाभ्यां धरां धृत्वोर्ध्वं शीर्षं फणीव हि ॥ ४३॥

देहाग्निर्वर्धते नित्यं सर्वरोगविनाशनम् ।

जागर्ति भुजगी देवी साधनाद्भुजङ्गासनम् ॥ ४४॥

अथ योगासनम् ।

उत्तानौ चरणौ कृत्वा संस्थाप्य जानुनोपरि ।

आसनोपरि संस्थाप्य चोत्तानं करयुग्मकम् ॥ ४५॥

पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् ।

योगासनं भवेदेतद्योगिनां योगसाधने ॥ ४६॥

 

ghaṭasthayoge dvātriṃśāsanavarṇanam

gheraṇḍa uvāca ।

abhyāsādyasya dehe’yaṃ yogaupayikatāṃ vrajet ।

manaśca sthiratāmeti procyate tadihā”sanam ॥ 1॥

āsanāni samastāni yāvanto jīvajantavaḥ ।

caturaśītilakṣāṇi śivena kathitāni ca ॥ 2॥

teṣāṃ madhye viśiṣṭāni ṣoḍaśonaṃ śataṃ kṛtam ।

teṣāṃ madhye martyaloke dvātriṃśadāsanaṃ śubham ॥ 3॥

siddhaṃ padmaṃ tathā bhadraṃ muktaṃ vajraṃ ca svastikam ।

siṃhaṃ ca gomukhaṃ vīraṃ dhanurāsanameva ca ॥ 4॥

mṛtaṃ guptaṃ tathā mātsyaṃ matsyendrāsanameva ca ।

gorakṣaṃ paścimottānamutkaṭaṃ saṅkaṭaṃ tathā ॥ 5॥

mayūraṃ kukkuṭaṃ kūrmaṃ tathā cottānakūrmakam ।

uttānamaṇḍūkaṃ vṛkṣaṃ maṇḍūkaṃ garuḍaṃ vṛṣam ॥ 6॥

śalabhaṃ makaraṃ coṣṭraṃ bhujaṅgaṃ ca yogāsanam ।

dvātriṃśadāsanāni tu martyaloke hi siddhidam ॥ 7॥

atha siddhāsanam ।

yonisthānakamaṅghrimūlaghaṭitaṃ sampīḍya gulphetaraṃ

meḍhroparyatha saṃnidhāya cibukaṃ kṛtvā hṛdi sthāpitam ।

sthāṇuḥ saṃyamitendriyo’caladṛśā paśyanbhruvorantare

evaṃ mokṣavidhāyate phalakaraṃ siddhāsanaṃ procyate ॥ 8॥

atha padmāsanam ।

vāmorūpari dakṣiṇaṃ hi caraṇaṃ saṃsthāpya vāmaṃ tathā

dakṣorūpari paścimena vidhinā kṛtvā karābhyāṃ dṛḍham ।

aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgramālokaye-

detadvyādhivikāranāśanakaraṃ padmāsanaṃ procyate ॥ 9॥

atha bhadrāsanam ।

gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitaḥ ।

pādāṅguṣṭhau karābhyāṃ ca dhṛtvā ca pṛṣṭhadeśataḥ ॥ 10॥

jālandharaṃ samāsādya nāsāgramavalokayet ।

bhadrāsanaṃ bhavedetatsarvavyādhivināśakam ॥ 11॥

atha muktāsanam ।

pāyumūle vāmagulphaṃ dakṣagulphaṃ tathopari ।

samakāyaśirogrīvaṃ muktāsanaṃ tu siddhidam ॥ 12॥

atha vajrāsanam ।

jaṅghābhyāṃ vajravatkṛtvā gudapārśve padāvubhau ।

vajrāsanaṃ bhavedetadyogināṃ siddhidāyakam ॥ 13॥

atha svastikāsanam ।

jānūrvorantare kṛtvā yogī pādatale ubhe ।

ṛjukāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate ॥ 14॥

atha siṃhāsanam ।

gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau ।

citimūlau bhūmisaṃsthau karau ca jānunopari ॥ 15।

vyaktavaktro jalandharaṃ ca nāsāgramavalokayet ।

siṃhāsanaṃ bhavedetatsarvavyādhivināśakam ॥ 16॥

atha gomukhāsanam ।

pādau ca bhūmau saṃsthāpya pṛṣṭhapārśve niveśayet ।

sthirakāyaṃ samāsādya gomukhaṃ gomukhā”kṛtiḥ ॥ 17॥

atha vīrāsanam ।

ekapādamathaikasminvinyasedūrusaṃsthitam ।

itarasmiṃstathā paścādvīrāsanamitīritam ॥ 18॥

atha dhanurāsanam ।

prasārya pādau bhuvi daṇḍarūpau

karau ca pṛṣṭhe dhṛtapādayugmam ।

kṛtvā dhanustulyaparivartitāṅgaṃ

nigadya yogī dhanurāsanaṃ tat ॥ 19॥

atha mṛtāsanam ।

uttānaṃ śavavadbhūmau śayānaṃ tu śavāsanam ।

śavāsanaṃ śramaharaṃ cittaviśrāntikāraṇam ॥ 20॥

atha guptāsanam ।

jānūrvorantare pādau kṛtvā pādau ca gopayet ।

pādopari ca saṃsthāpya gudaṃ guptāsanaṃ viduḥ ॥ 21॥

atha matsyāsanam ।

muktapadmāsanaṃ kṛtvā uttānaśayanaṃ caret ।

kūrparābhyāṃ śiro veṣṭyaṃ matsyāsanaṃ tu rogahā ॥ 22॥

atha mātsyendrāsanam ।

udaraṃ paścimābhāsaṃ kṛtvā tiṣṭhati yatnataḥ ।

namrāṅgaṃ vāmapādaṃ hi dakṣajānūpari nyaset ॥ 23॥

tatra yāmyaṃ kūrparaṃ ca yāmyakare ca vaktrakam ।

bhruvormadhye gatā dṛṣṭiḥ pīṭhaṃ mātsyendramucyate ।

matsyendrapīṭhaṃ jaṭharāgnidīptaṃ kuryādrogaṃ ca jvarā vināśanam ॥ 24॥

atha paścimottānāsanam ।

prasārya pādau bhuvi daṇḍarūpau

saṃnyastabhālaṃ citiyugmamadhye ।

yatnena pādau ca dhṛtau karābhyāṃ

yogīndrapīṭhaṃ paścimottānamāhuḥ ॥ 25॥

atha gorakṣāsanam ।

jānūrvorantare pādau uttānau vyaktasaṃsthitau ।

gulphau cācchādya hastābhyāmuttānābhyāṃ prayatnataḥ ॥ 26॥

kaṇṭhasaṅkocanaṃ kṛtvā nāsāgramavalokayet ।

gorakṣāsanamityāhuryogināṃ siddhikāraṇam ॥ 27॥

athotkaṭāsanam ।

aṅguṣṭhābhyāmavaṣṭabhya dharāṃ gulphau ca khe gatau ।

tatropari gudaṃ nyasedvijñeyamutkaṭāsanam ॥ 28॥

atha saṅkaṭāsanam ।

vāmapādacitermūlaṃ vinyasya dharaṇītale ।

pādadaṇḍena yāmyena veṣṭayedvāmapādakam ।

jānuyugme karayugmametatsaṅkaṭamāsanam ॥ 29॥

atha mayūrāsanam ।

dharāmavaṣṭabhya karayostalābhyāṃ tatkūrpare sthāpitanābhipārśvam ।

uccāsano daṇḍavadutthitaḥ khe mayūrametatpravadanti pīṭham ॥ 30॥

bahukadaśanabhuktaṃ bhasma kuryādaśeṣaṃ janayati jaṭharāgniṃ jārayetkālakūṭam ।

harati sakalarogānāśu gulmajvarādīn bhavati vigatadoṣaṃ hyāsanaṃ śrīmayūram ॥ 31॥

atha kukkuṭāsanam ।

padmāsanaṃ samāsādya jānūrvorantare karau ।

kūrparābhyāṃ samāsīno uccasthaḥ kukkuṭāsanam ॥ 32॥

atha kūrmāsanam ।

gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau ।

ṛjukāyaśirogrīvaṃ kūrmāsanamitīritam ॥ 33॥

athottanakūrmāsanam ।

kukkuṭāsanabandhasthaṃ karābhyāṃ dhṛtakandharam ।

pīṭhaṃ kūrmavaduttānametaduttānakūrmakam ॥ 34॥

atha maṇḍūkāsanam ।

pādatalau pṛṣṭhadeśe aṅguṣṭhe dve ca saṃspṛśet ।

jānuyugmaṃ puraskṛtya sādhayenmaṇḍūkāsanam ॥ 35॥

athottanamaṇḍūkāsanam ।

maṇḍūkāsanamadhyasthaṃ kūrparābhyāṃ dhṛtaṃ śiraḥ ।

etadbhekavaduttānametaduttānamaṇḍūkam ॥ 36॥

atha vṛkṣāsanam ।

vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu ।

tiṣṭhettu vṛkṣavadbhūmau vṛkṣāsanamidaṃ viduḥ ॥ 37॥

atha garuḍāsanam ।

jaṅghorubhyāṃ dharāṃ pīḍya sthirakāyo dvijānunā ।

jānūpari karayugmaṃ garuḍāsanamucyate ॥ 38॥

atha vṛṣāsanam ।

yāmyagulphe pāyumūlaṃ vāmabhāge padetaram ।

viparītaṃ spṛśedbhūmiṃ vṛṣāsanamidaṃ bhavet ॥ 39॥

atha śalabhāsanam ।

adhyāsya śete karayugmaṃ vakṣe bhūmimavaṣṭabhya karayostalābhyām ।

pādau ca śūnye ca vitasti cordhvaṃ vadanti pīṭhaṃ śalabhaṃ munīndrāḥ ॥ 40॥

atha makarāsanam ।

adhyāsya śete hṛdayaṃ nidhāya bhūmau ca pādau ca prasāryamāṇau ।

śiraśca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat ॥ 41॥

athoṣṭrāsanam ।

adhyāsya śete padayugmavyastaṃ pṛṣṭhe nidhāyāpi dhṛtaṃ karābhyām ।

ākuñcayetsamyagudarāsyagāḍhamauṣṭraṃ ca pīṭhaṃ yogino vadanti ॥ 42॥

atha bhujaṅgāsanam ।

aṅguṣṭhanābhiparyantamadhobhūmau vininyaset ।

karatalābhyāṃ dharāṃ dhṛtvordhvaṃ śīrṣaṃ phaṇīva hi ॥ 43॥

dehāgnirvardhate nityaṃ sarvarogavināśanam ।

jāgarti bhujagī devī sādhanādbhujaṅgāsanam ॥ 44॥

atha yogāsanam ।

uttānau caraṇau kṛtvā saṃsthāpya jānunopari ।

āsanopari saṃsthāpya cottānaṃ karayugmakam ॥ 45॥

pūrakairvāyumākṛṣya nāsāgramavalokayet ।

yogāsanaṃ bhavedetadyogināṃ yogasādhane ॥ 46॥

इति श्रीघेरण्डसंहितायां महर्षिघेरण्डनृपचण्डकापालिसंवादे

घटस्थयोगे द्वात्रिंशासनवर्णनं नाम द्वितीयोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ maharṣigheraṇḍanṛpacaṇḍakāpālisaṃvāde

ghaṭasthayoge dvātriṃśāsanavarṇanaṃ nāma dvitīyopadeśaḥ oṃ ॥

मुद्राप्रयोगो नाम तृतीयोपदेशः

घेरण्ड उवाच ।

महामुद्रा नभोमुद्रा उड्डीयानं जलन्धरम् ।

मूलबन्धं महाबन्धं महावेधश्च खेचरी ॥ १॥

विपरीतकरी योनिर्वज्रोली शक्तिचालनी ।

ताडागी माण्डुकीमुद्रा शाम्भवी पञ्चधारणा ॥ २॥

अश्विनी पाशिनी काकी मातङ्गी च भुजङ्गिनी ।

पञ्चविंशतिमुद्राश्च सिद्धिदा इह योगिनाम् ॥ ३॥

अथ मुद्राणां फलकथनम् ।

मुद्राणां पटलं देवि कथितं तव संनिधौ ।

येन विज्ञातमात्रेण सर्वसिद्धिः प्रजायते ॥ ४॥

गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् ।

प्रीतिदं योगिनां चैव दुर्लभं मरुतामपि ॥ ५।

अथ महामुद्राकथनम् ।

पायुमूलं वामगुल्फे संपीड्य दृढयत्नतः ।

याम्यपादं प्रसार्याथ करे धृतपदाङ्गुलः ॥ ६॥

कण्ठसङ्कोचनं कृत्वा भ्रुवोर्मध्यं निरीक्षयेत् ।

महामुद्राभिधा मुद्रा कथ्यते चैव सूरिभिः ॥

(पाठभेदपूरकैर्वायुं संपूर्य महामुद्रा निगद्यते ।

ततः शनैः शनैरेवं रेचयेत्तं न वेगतः) ॥ ७॥

अथ महामुद्राफलकथनम् ।

वलितं पलितं चैव जरां मृत्युं निवारयेत् ।

क्षयकासं गुदावर्तं प्लीहाजीर्णं ज्वरं तथा ।

नाशयेत्सर्वरोगांश्च महामुद्रा च साधनात् ॥ ८॥

अथ नभोमुद्राकथनम् ।

यत्र यत्र स्थितो योगी सर्वकार्येषु सर्वदा ।

ऊर्ध्वजिह्वः स्थिरो भूत्वा धारयेत्पवनं सदा ।

नभोमुद्रा भवेदेषा योगिनां रोगनाशिनी ॥ ९॥

अथ उड्डीयानकथनम् ।

उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत् ।

उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः ।

उड्डीयानं त्वसौ बन्धो मृत्युमातङ्गकेसरी ॥ १०॥

अथोड्डीयानबन्धस्य फलकथनम् ।

समग्राद्बन्धनाद्ध्येतदुड्डीयानं विशिष्यते ।

उड्डीयाने समभ्यस्ते मुक्तिः स्वाभाविकी भवेत् ॥ ११॥

अथ जालन्धरबन्धकथनम् ।

कण्ठसङ्कोचनं कृत्वा चिबुकं हृदये न्यसेत् ।

जालन्धरे कृते बन्धे षोडशाधारबन्धनम् ।

जालन्धरमहामुद्रा मृत्योश्च क्षयकारिणी ॥ १२॥

अथ जालन्धरबन्धस्य फलकथनम् ।

सिद्धं जालन्धरं बन्धं योगिनां सिद्धिदायकम् ।

षण्मासमभ्यसेद्यो हि स सिद्धो नाऽत्र संशयः ॥ १३॥

अथ मूलबन्धकथनम् ।

पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्ततः ।

नाभिग्रन्थिं मेरुदण्डे संपीड्य यत्नतः सुधीः ॥ १४॥

मेढ्रं दक्षिणगुल्फे तु दृढबन्धं समाचरेत् ।

नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः ।

जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥ १५॥

अथ मूलबन्धस्य फलकथनम् ।

संसारसमुद्रं तर्तुमभिलषति यः पुमान् ।

विरले सुगुप्तो भूत्वा मुद्रामेतां समभ्यसेत् ॥ १६॥

अभ्यासाद्बन्धनस्यास्य मरुत्सिद्धिर्भवेद्ध्रुवम् ।

साधयेद्यत्नतस्तर्हि मौनी तु विजिताऽलसः ॥ १७॥

अथ महाबन्धकथनम् ।

वामपादस्य गुल्फेन पायुमूलं निरोधयेत् ।

दक्षपादेन तद्गुल्फं संपीड्य यत्नतः सुधीः ॥ १८॥

शनैः शनैश्चालयेत्पार्ष्णिं योनिमाकुञ्चयेच्छनैः ।

जालन्धरे धारयेत्प्राणं महाबन्धो निगद्यते ॥ १९॥

अथ महाबन्धस्य फलकथनम् ।

महाबन्धः परो बन्धो जरामरणनाशनः ।

प्रसादादस्य बन्धस्य साधयेत्सर्ववाञ्चितम् ॥ २०॥

अथ महावेधकथनम् ।

रूपयौवनलावण्यं नारीणां पुरुषं विना ।

मूलबन्धमहाबन्धौ महावेधं विना तथा ॥ २१॥

महाबन्धं समासाद्य उड्डानकुम्भकं चरेत् ।

महावेधः समाख्यातो योगिनां सिद्धिदायकः ॥ २२॥

अथ महावेधस्य फलकथनम् ।

महाबन्धमूलबन्धौ महावेधसमन्वितौ ।

प्रत्यहं कुरुते यस्तु स योगी योगवित्तमः ॥ २३॥

न मृत्युतो भयं तस्य न जरा तस्य विद्यते ।

गोपनीयः प्रयत्नेन वेधोऽयं योगिपुङ्गवैः ॥ २४॥

जिह्वाऽधो नाडीं सञ्चिन्नां रसनां चालयेत्सदा ।

दोहयेन्नवनीतेन लौहयन्त्रेण कर्षयेत् ॥ २५॥

एवं नित्यं समभ्यासाल्लम्बिका दीर्घतां व्रजेत् ।

यावद्गच्छेद्भ्रुवोर्मध्ये तदा गच्छति खेचरी ॥ २६॥

रसनां तालुमध्ये तु शनैः शनैः प्रवेशयेत् ।

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।

भ्रुवोर्मध्ये गता दृष्टिर्मुद्रा भवति खेचरी ॥ २७॥

अथ खेचरी मुद्रायाः फलकथनम् ।

न च मूर्च्छा क्षुधा तृष्णा नैवाऽऽलस्यं प्रजायते ।

न च रोगो जरा मृत्युर्देवदेहः स जायते ॥ २८॥

न चाग्निर्दहते गात्रं न शोषयति मारुतः ।

न देहं क्लेदयन्त्यापो दंशयेन्न भुजङ्गमः ॥ २९॥

लावण्यं च भवेद्गात्रे समाधिर्जायते ध्रुवम् ।

कपालवक्त्रसंयोगे रसना रसमाप्नुयात् ॥ ३०॥

नानारससमुद्भूतमानन्दं च दिने दिने ।

आदौ लवणक्षारं च ततस्तिक्तकषायकम् ॥ ३१॥

नवनीतं घृतं क्षीरं दधितक्रमधूनि च ।

द्राक्षारसं च पीयूषं जायते रसनोदकम् ॥ ३२॥

अथ विपरीतकरणीमुद्राकथनम् ।

नाभिमूले वसेत्सूर्यस्तालुमूले च चन्द्रमाः ।

अमृतं ग्रसते सूर्यस्ततो मृत्युवशो नरः ॥ ३३॥

ऊर्ध्वं च योजयेत्सूर्यं चन्द्रं च अध आनयेत् ।

विपरीतकरी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ३४॥

भूमौ शिरश्च संस्थाप्य करयुग्मं समाहितः ।

ऊर्ध्वपादः स्थिरो भूत्वा विपरीतकरी मता ॥ ३५॥

अथ विपरीतकरणीमुद्रायाः फलकथनम् ।

मुद्रां च साधयेन्नित्यं जरां मृत्युं च नाशयेत् ।

स सिद्धः सर्वलोकेषु प्रलयेऽपि न सीदति ॥ ३६॥

अथ योनिमुद्राकथनम् ।

सिद्धासनं समासाद्य कर्णाक्षिनासिकामुखम् ।

अङ्गुष्ठतर्जनीमध्यानामादिभिश्च धारयेत् ॥ ३७॥

काकीभिः प्राणं सङ्कृष्य अपाने योजयेत्ततः ।

षट्चक्राणि क्रमाद्ध्यात्वा हुं हंसमनुना सुधीः ॥ ३८॥

चैतन्यमानयेद्देवीं निद्रिता या भुजङ्गिनी ।

जीवेन सहितां शक्तिं समुत्थाप्य पराम्बुजे ॥ ३९॥

शक्तिमयः स्वयं भूत्वा परं शिवेन सङ्गमम् ।

नानासुखं विहारं च चिन्तयेत्परमं सुखम् ॥ ४०।

शिवशक्तिसमायोगादेकान्तं भुवि भावयेत् ।

आनन्दमानसो भूत्वा अहं ब्रह्मेति सम्भवेत् ॥ ४१॥

योनिमुद्रा परा गोप्या देवानामपि दुर्लभा ।

सकृत्तु लाभसंसिद्धिः समाधिस्थः स एव हि ॥ ४२॥

अथ योनिमुद्राफलकथनम् ।

ब्रह्महा भ्रूणहा चैव सुरापी गुरुतल्पगः ।

एतैः पापैर्न लिप्येत योनिमुद्रानिबन्धनात् ॥ ४३॥

यानि पापानि घोराणि उपपापानि यानि च ।

तानि सर्वाणि नश्यन्ति योनिमुद्रानिबन्धनात् ।

तस्मादभ्यसनं कुर्याद्यदि मुक्तिं समिच्छति ॥ ४४॥

अथ वज्रोलिमुद्राकथनम् ।

धरामवष्टभ्य करयोस्तलाभ्या-

मूर्ध्वं क्षिपेत्पादयुगं शिरः खे ।

शक्तिप्रबोधाय चिरजीवनाय

वज्रोलिमुद्रां मुनयो वदन्ति ॥ ४५॥

अथ वज्रोलिमुद्रायाः फलकथनम् ।

अयं योगो योगश्रेष्ठो योगिनां मुक्तिकारणम् ।

अयं हितप्रदो योगो योगिनां सिद्धिदायकः ॥ ४६॥

एतद्योगप्रसादेन बिन्दुसिद्धिर्भवेद्ध्रुवम् ।

सिद्धे बिन्दौ महायत्ने किं न सिध्यति भूतले ॥ ४७॥

भोगेन महता युक्तो यदि मुद्रां समाचरेत् ।

तथाऽपि सकला सिद्धिस्तस्य भवति निश्चितम् ॥ ४८॥

अथ शक्तिचालनीमुद्राकथनम् ।

मूलाधारे आत्मशक्तिः कुण्डली परदेवता ।

शयिता भुजगाऽऽकारा सार्धत्रिवलयाऽन्विता ॥ ४९॥

यावत्सा निद्रिता देहे तावज्जीवः पशुर्यथा ।

ज्ञानं न जायते तावत्कोटियोगं समभ्यसेत् ॥ ५०॥

उद्घाटयेत्कवाटं च यथा कुञ्चिकया हठात् ।

कुण्डलिन्याः प्रबोधेन ब्रह्मद्वारं प्रभेदयेत् ॥ ५१॥

नाभिं संवेष्ट्य वस्त्रेण न च नग्नो बहिः स्थितः ।

गोपनीयगृहे स्थित्वा शक्तिचालनमभ्यसेत् ॥ ५२॥

वितस्तिप्रमितं दीर्घं विस्तारे चतुरङ्गुलम् ।

मृदुलं धवलं सूक्ष्मं वेष्टनाम्बरलक्षणम् ।

एवमम्बरयुक्तं च कटिसूत्रेण योजयेत् ॥ ५३॥

भस्मना गात्रं संलिप्य सिद्धासनं समाचरेत् ।

नासाभ्यां प्राणमाकृष्य अपाने योजयेद्बलात् ॥ ५४॥

तावदाकुञ्चयेद्गुह्यं शनैरश्विनिमुद्रया ।

यावद्गच्छेत्सुषुम्णायां वायुः प्रकाशयेद्धठात् ॥ ५५॥

तदा वायुप्रबन्धेन कुम्भिका च भुजङ्गिनी ।

बद्धश्वासस्ततो भूत्वा ऊर्ध्वमार्गं प्रपद्यते ।

शब्दद्वयं फलैकं तु योनिमुद्रां च चालयेत् ॥ ५६॥

विना शक्तिचालनेन योनिमुद्रा न सिध्यति ।

आदौ चालनमभ्यस्य योनिमुद्रां समभ्यसेत् ॥ ५७॥

इति ते कथितं चण्डकपाले शक्तिचालनम् ।

गोपनीयं प्रयत्नेन दिने दिने समभ्यसेत् ॥ ५८॥

अथ शक्तिचालनीमुद्रायाः फलकथनम् ।

मुद्रेयं परमा गोप्या जरामरणनाशिनी ।

तस्मादभ्यसनं कार्यं योगिभिः सिद्धिकाङ्क्षिभिः ॥ ५९॥

नित्यं योऽभ्यसते योगी सिद्धिस्तस्य करे स्थिता ।

तस्य विग्रहसिद्धिः स्याद्रोगाणां सङ्क्षयो भवेत् ॥ ६०॥

अथ तडागीमुद्राकथनम् ।

उदरं पश्चिमोत्तानं कृत्वा च तडागाकृति ।

तडागी सा परामुद्रा जरामृत्युविनाशिनी ॥ ६१॥

अथ माण्डुकीमुद्राकथनम् ।

मुखं समुद्रितं कृत्वा जिह्वामूलं प्रचालयेत् ।

शनैर्ग्रसेदमृतं तन्माण्डुकीं मुद्रिकां विदुः ॥ ६२॥

अथ माण्डुकीमुद्रायाः कथनम् ।

वलितं पलितं नैव जायते नित्ययौवनम् ।

न केशे जायते पाको यः कुर्यान्नित्यमाण्डुकीम् ॥ ६३॥

अथ शाम्भवीमुद्राकथनम् ।

नेत्राञ्जनं समालोक्य आत्मारामं निरीक्षयेत् ।

सा भवेच्छाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ६४॥

अथ शाम्भवीमुद्रायाः फलकथनम् ।

वेदशास्त्रपुराणानि सामान्यगणिका इव ।

इयं तु शाम्भवी मुद्रा गुप्ता कुलवधूरिव ॥ ६५॥

स एव आदिनाथश्च स च नारायणः स्वयम् ।

स च ब्रह्मा सृष्टिकारी यो मुद्रां वेत्ति शाम्भवीम् ॥ ६६॥

सत्यं सत्यं पुनः सत्यं सत्यमुक्तं महेश्वरः ।

शाम्भवीं यो विजानीयात्स च ब्रह्म न चाऽन्यथा ॥ ६७॥

अथ पञ्चधारणामुद्राकथनम् ।

कथिता शाम्भवी मुद्रा श‍ृणुष्व पञ्चधारणाम् ।

धारणानि समासाद्य किं न सिध्यति भूतले ॥ ६८॥

अनेन नरदेहेन स्वर्गेषु गमनाऽऽगमम् ।

मनोगतिर्भवेत्तस्य खेचरत्वं न चाऽन्यथा ॥ ६९॥

अथ पार्थिवीधारणामुद्राकथनम् ।

यत्तत्त्वं हरितालदेशरचितं भौमं लकाराऽन्वितं

वेदास्रं कमलासनेन सहितं कृत्वा हृदि स्थायिनम् ।

प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्-

एषा स्तम्भकरी सदा क्षितिजयं कुर्यादधोधारणा ॥ ७०॥

अथ पार्थिवीधारणामुद्रायाः फलकथनम् ।

पार्थिवीधारणामुद्रां यः करोति च नित्यशः ।

मृत्युञ्जयः स्वयं सोऽपि स सिद्धो विचरेद्भुवि ॥ ७१॥

अथाऽऽम्भसीधारणामुद्राकथनम् ।

शङ्खेन्दुप्रतिमं च कुन्दधवलं तत्त्वं किलालं शुभं

तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना ।

प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्-

एषा दुःसहतापपापहरिणी स्यादाम्भसी धारणा ॥ ७२॥

अथाऽऽम्भसीधारणामुद्रायाः फलकथनम् ।

आम्भसीं परमां मुद्रां यो जानाति स योगवित् ।

जले च गभीरे घोरे मरणं तस्य नो भवेत् ॥ ७३॥

इयं तु परमा मुद्रा गोपनीया प्रयत्नतः ।

प्रकाशात्सिद्धिहानिः स्यात्सत्यं वच्मि च तत्त्वतः ॥ ७४॥

अथाऽऽग्नेयीधारणामुद्राकथनम् ।

यन्नाभिस्थितमिन्द्रगोपसदृशं बीजं त्रिकोणाऽन्वितं

तत्त्वं तेजमयं प्रदीप्तमरुणं रुद्रेण यत्सिद्धिदम् ।

प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्-

एषा कालगभीरभीतिहरणी वैश्वानरी धारणा ॥ ७५॥

अथाऽऽग्नेयीधारणामुद्रायाः फलकथनम् ।

प्रदीप्ते ज्वलिते वह्नौ यदि पतति साधकः ।

एतन्मुद्राप्रसादेन स जीवति न मृत्युभाक् ॥ ७६॥

अथ वायवीधारणामुद्राकथनम् ।

यद्भिन्नाऽञ्जनपुञ्जसंनिभमिदं धूम्राऽवभासं

परं तत्त्वं सत्त्वमयं यकारसहितं यत्रेश्वरो देवता ।

प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्-

एषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ ७७॥

अथ वायवीधारणामुद्रायाः फलकथनम् ।

इयं तु परमा मुद्रा जरामृत्युविनाशिनी ।

वायुना म्रियते नाऽपि खे गतेश्च प्रदायिनी ॥ ७८॥

शठाय भक्तिहीनाय न देया यस्य कस्यचित् ।

दत्ते च सिद्धिहानिः स्यात्सत्यं वच्मि च चण्ड ते ॥ ७९॥

अथाऽऽकाशीधारणामुद्राकथनम् ।

यत्सिन्धौ वरशुद्धवारिसदृशं व्योमं परं भासितं

तत्त्वं देवसदाशिवेन सहितं बीजं हकाराऽन्वितम् ।

प्राणं तत्र विलीय पञ्चघटिकाश्चित्ताऽन्वितं धारयेद्

एषा मोक्षकवाटभेदनकरी कुर्यान्नभोधारणाम् ॥ ८०॥

अथाऽऽकाशीधारणामुद्रायाः फलकथनम् ।

आकाशीधारणां मुद्रां यो वेत्ति स च योगवित् ।

न मृत्युर्जायते तस्य प्रलये नावसीदति ॥ ८१॥

अथाऽश्विनीमुद्राकथनम् ।

आकुञ्चयेद्गुदद्वारं प्रकाशयेत्पुनः पुनः ।

सा भवेदश्विनी मुद्रा शक्तिप्रबोधकारिणी ॥ ८२॥

अथाऽश्विनीमुद्रायाः फलकथनम् ।

अश्विनी परमा मुद्रा गुह्यरोगविनाशिनी ।

बलपुष्टिकरी चैव अकालमरणं हरेत् ॥ ८३॥

अथ पशिनीमुद्राकथनम् ।

कण्ठपृष्टे क्षिपेत्पादौ पाशवद्दृढबन्धनम् ।

सैव स्यात्पाशिनी मुद्रा शक्तिप्रबोधकारिणी ॥ ८४॥

अथ पशिनीमुद्रायाः फलकथनम् ।

पाशिनी महती मुद्रा बलपुष्टिविधायिनी ।

साधनीया प्रयत्नेन साधकैः सिद्धिकाङ्क्षिभिः ॥ ८५॥

अथ काकीमुद्राकथनम् ।

काकचञ्चुवदास्येन पिबेद्वायुं शनैः शनैः ।

काकी मुद्रा भवेदेषा सर्वरोगविनाशिनी ॥ ८६॥

अथ काकीमुद्रायाः फलकथनम् ।

काकीमुद्रा परा मुद्रा सर्वतन्त्रेषु गोपिता ।

अस्याः प्रसादमात्रेण न रोगी काकवद्भवेत् ॥ ८७॥

अथ मातङ्गिनीमुद्राकथनम् ।

कण्ठमग्ने जले स्थित्वा नासाभ्यां जलमाहरेत् ।

मुखान्निर्गमयेत्पश्चात्पुनर्वक्त्रेण चाऽऽहरेत् ॥ ८८॥

नासाभ्यां रेचयेत्पश्चात्कुर्यादेवं पुनः पुनः ।

मातङ्गिनी परा मुद्रा जरामृत्युविनाशिनी ॥ ८९॥

अथ मातङ्गिनीमुद्रायाः फलकथनम् ।

विरले निर्जने देशे स्थित्वा चैकाग्रमानसः ।

कुर्यान्मातङ्गिनीं मुद्रां मातङ्ग इव जायते ॥ ९०॥

यत्र यत्र स्थितो योगी सुखमत्यन्तमश्नुते ।

तस्मात्सर्वप्रयत्नेन साधयेन्मुद्रिकां पराम् ॥ ९१॥

अथ भुजङ्गिनीमुद्राकथनम् ।

वक्त्रं किञ्चित्सुप्रसार्य चाऽनिलं गलया पिबेत् ।

सा भवेद्भुजङ्गी मुद्रा जरामृत्युविनाशिनी ॥ ९२॥

अथ भुजङ्गिनीमुद्रायाः फलकथनम् ।

यावच्च उदरे रोगा अजीर्णादि विशेषतः ।

तत्सर्वं नाशयेदाशु यत्र मुद्रा भुजङ्गिनी ॥ ९३॥

सर्वे रोगा विनश्यन्ति भुजङ्गीमुद्रया ध्रुवम् ।

योगसिद्धिप्रदा चेयं प्रोक्ता योगपरायणैः ॥

अथ मुद्राणां फलकथनम् ।

इदं तु मुद्रापटलं कथितं चण्ड ते शुभम् ।

वल्लभं सर्वसिद्धानां जरामरणनाशनम् ॥ ९४॥

शठाय भक्तिहीनाय न देयं यस्य कस्यचित् ।

गोपनीयं प्रयत्नेन दुर्लभं मरुतामपि ॥ ९५॥

ऋजवे शान्तचित्ताय गुरुभक्तिपराय च ।

कुलीनाय प्रदातव्यं भोगमुक्तिप्रदायकम् ॥ ९६॥

मुद्राणां पटलं ह्येतत्सर्वव्याधिविनाशनम् ।

नित्यमभ्यासशीलस्य जठराग्निविवर्धनम् ॥ ९७॥

न तस्य जायते मृत्युर्नास्य जरादिकं तथा ।

नाग्निजलभयं तस्य वायोरपि कुतो भयम् ॥ ९८॥

कासः श्वासः प्लीहा कुष्ठं श्लेष्मरोगाश्च विंशतिः ।

मुद्राणां साधनाच्चैव विनश्यन्ति न संशयः ॥ ९९॥

बहुना किमिहोक्तेन सारं वच्मि च चण्ड ते ।

नास्ति मुद्रासमं किञ्चित्सिद्धिदं क्षितिमण्डले ॥ १००॥

mudrāprayogo nāma tṛtīyopadeśaḥ

gheraṇḍa uvāca ।

mahāmudrā nabhomudrā uḍḍīyānaṃ jalandharam ।

mūlabandhaṃ mahābandhaṃ mahāvedhaśca khecarī ॥ 1॥

viparītakarī yonirvajrolī śakticālanī ।

tāḍāgī māṇḍukīmudrā śāmbhavī pañcadhāraṇā ॥ 2॥

aśvinī pāśinī kākī mātaṅgī ca bhujaṅginī ।

pañcaviṃśatimudrāśca siddhidā iha yoginām ॥ 3॥

atha mudrāṇāṃ phalakathanam ।

mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau ।

yena vijñātamātreṇa sarvasiddhiḥ prajāyate ॥ 4॥

gopanīyaṃ prayatnena na deyaṃ yasya kasyacit ।

prītidaṃ yogināṃ caiva durlabhaṃ marutāmapi ॥ 5।

atha mahāmudrākathanam ।

pāyumūlaṃ vāmagulphe saṃpīḍya dṛḍhayatnataḥ ।

yāmyapādaṃ prasāryātha kare dhṛtapadāṅgulaḥ ॥ 6॥

kaṇṭhasaṅkocanaṃ kṛtvā bhruvormadhyaṃ nirīkṣayet ।

mahāmudrābhidhā mudrā kathyate caiva sūribhiḥ ॥

(pāṭhabhedapūrakairvāyuṃ saṃpūrya mahāmudrā nigadyate ।

tataḥ śanaiḥ śanairevaṃ recayettaṃ na vegataḥ) ॥ 7॥

atha mahāmudrāphalakathanam ।

valitaṃ palitaṃ caiva jarāṃ mṛtyuṃ nivārayet ।

kṣayakāsaṃ gudāvartaṃ plīhājīrṇaṃ jvaraṃ tathā ।

nāśayetsarvarogāṃśca mahāmudrā ca sādhanāt ॥ 8॥

atha nabhomudrākathanam ।

yatra yatra sthito yogī sarvakāryeṣu sarvadā ।

ūrdhvajihvaḥ sthiro bhūtvā dhārayetpavanaṃ sadā ।

nabhomudrā bhavedeṣā yogināṃ roganāśinī ॥ 9॥

atha uḍḍīyānakathanam ।

udare paścimaṃ tānaṃ nābherūrdhvaṃ tu kārayet ।

uḍḍīnaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ ।

uḍḍīyānaṃ tvasau bandho mṛtyumātaṅgakesarī ॥ 10॥

athoḍḍīyānabandhasya phalakathanam ।

samagrādbandhanāddhyetaduḍḍīyānaṃ viśiṣyate ।

uḍḍīyāne samabhyaste muktiḥ svābhāvikī bhavet ॥ 11॥

atha jālandharabandhakathanam ।

kaṇṭhasaṅkocanaṃ kṛtvā cibukaṃ hṛdaye nyaset ।

jālandhare kṛte bandhe ṣoḍaśādhārabandhanam ।

jālandharamahāmudrā mṛtyośca kṣayakāriṇī ॥ 12॥

atha jālandharabandhasya phalakathanam ।

siddhaṃ jālandharaṃ bandhaṃ yogināṃ siddhidāyakam ।

ṣaṇmāsamabhyasedyo hi sa siddho nā’tra saṃśayaḥ ॥ 13॥

atha mūlabandhakathanam ।

pārṣṇinā vāmapādasya yonimākuñcayettataḥ ।

nābhigranthiṃ merudaṇḍe saṃpīḍya yatnataḥ sudhīḥ ॥ 14॥

meḍhraṃ dakṣiṇagulphe tu dṛḍhabandhaṃ samācaret ।

nābherūrdhvamadhaścāpi tānaṃ kuryātprayatnataḥ ।

jarāvināśinī mudrā mūlabandho nigadyate ॥ 15॥

atha mūlabandhasya phalakathanam ।

saṃsārasamudraṃ tartumabhilaṣati yaḥ pumān ।

virale sugupto bhūtvā mudrāmetāṃ samabhyaset ॥ 16॥

abhyāsādbandhanasyāsya marutsiddhirbhaveddhruvam ।

sādhayedyatnatastarhi maunī tu vijitā’lasaḥ ॥ 17॥

atha mahābandhakathanam ।

vāmapādasya gulphena pāyumūlaṃ nirodhayet ।

dakṣapādena tadgulphaṃ saṃpīḍya yatnataḥ sudhīḥ ॥ 18॥

śanaiḥ śanaiścālayetpārṣṇiṃ yonimākuñcayecchanaiḥ ।

jālandhare dhārayetprāṇaṃ mahābandho nigadyate ॥ 19॥

atha mahābandhasya phalakathanam ।

mahābandhaḥ paro bandho jarāmaraṇanāśanaḥ ।

prasādādasya bandhasya sādhayetsarvavāñcitam ॥ 20॥

atha mahāvedhakathanam ।

rūpayauvanalāvaṇyaṃ nārīṇāṃ puruṣaṃ vinā ।

mūlabandhamahābandhau mahāvedhaṃ vinā tathā ॥ 21॥

mahābandhaṃ samāsādya uḍḍānakumbhakaṃ caret ।

mahāvedhaḥ samākhyāto yogināṃ siddhidāyakaḥ ॥ 22॥

atha mahāvedhasya phalakathanam ।

mahābandhamūlabandhau mahāvedhasamanvitau ।

pratyahaṃ kurute yastu sa yogī yogavittamaḥ ॥ 23॥

na mṛtyuto bhayaṃ tasya na jarā tasya vidyate ।

gopanīyaḥ prayatnena vedho’yaṃ yogipuṅgavaiḥ ॥ 24॥

jihvā’dho nāḍīṃ sañcinnāṃ rasanāṃ cālayetsadā ।

dohayennavanītena lauhayantreṇa karṣayet ॥ 25॥

evaṃ nityaṃ samabhyāsāllambikā dīrghatāṃ vrajet ।

yāvadgacchedbhruvormadhye tadā gacchati khecarī ॥ 26॥

rasanāṃ tālumadhye tu śanaiḥ śanaiḥ praveśayet ।

kapālakuhare jihvā praviṣṭā viparītagā ।

bhruvormadhye gatā dṛṣṭirmudrā bhavati khecarī ॥ 27॥

atha khecarī mudrāyāḥ phalakathanam ।

na ca mūrcchā kṣudhā tṛṣṇā naivā”lasyaṃ prajāyate ।

na ca rogo jarā mṛtyurdevadehaḥ sa jāyate ॥ 28॥

na cāgnirdahate gātraṃ na śoṣayati mārutaḥ ।

na dehaṃ kledayantyāpo daṃśayenna bhujaṅgamaḥ ॥ 29॥

lāvaṇyaṃ ca bhavedgātre samādhirjāyate dhruvam ।

kapālavaktrasaṃyoge rasanā rasamāpnuyāt ॥ 30॥

nānārasasamudbhūtamānandaṃ ca dine dine ।

ādau lavaṇakṣāraṃ ca tatastiktakaṣāyakam ॥ 31॥

navanītaṃ ghṛtaṃ kṣīraṃ dadhitakramadhūni ca ।

drākṣārasaṃ ca pīyūṣaṃ jāyate rasanodakam ॥ 32॥

atha viparītakaraṇīmudrākathanam ।

nābhimūle vasetsūryastālumūle ca candramāḥ ।

amṛtaṃ grasate sūryastato mṛtyuvaśo naraḥ ॥ 33॥

ūrdhvaṃ ca yojayetsūryaṃ candraṃ ca adha ānayet ।

viparītakarī mudrā sarvatantreṣu gopitā ॥ 34॥

bhūmau śiraśca saṃsthāpya karayugmaṃ samāhitaḥ ।

ūrdhvapādaḥ sthiro bhūtvā viparītakarī matā ॥ 35॥

atha viparītakaraṇīmudrāyāḥ phalakathanam ।

mudrāṃ ca sādhayennityaṃ jarāṃ mṛtyuṃ ca nāśayet ।

sa siddhaḥ sarvalokeṣu pralaye’pi na sīdati ॥ 36॥

atha yonimudrākathanam ।

siddhāsanaṃ samāsādya karṇākṣināsikāmukham ।

aṅguṣṭhatarjanīmadhyānāmādibhiśca dhārayet ॥ 37॥

kākībhiḥ prāṇaṃ saṅkṛṣya apāne yojayettataḥ ।

ṣaṭcakrāṇi kramāddhyātvā huṃ haṃsamanunā sudhīḥ ॥ 38॥

caitanyamānayeddevīṃ nidritā yā bhujaṅginī ।

jīvena sahitāṃ śaktiṃ samutthāpya parāmbuje ॥ 39॥

śaktimayaḥ svayaṃ bhūtvā paraṃ śivena saṅgamam ।

nānāsukhaṃ vihāraṃ ca cintayetparamaṃ sukham ॥ 40।

śivaśaktisamāyogādekāntaṃ bhuvi bhāvayet ।

ānandamānaso bhūtvā ahaṃ brahmeti sambhavet ॥ 41॥

yonimudrā parā gopyā devānāmapi durlabhā ।

sakṛttu lābhasaṃsiddhiḥ samādhisthaḥ sa eva hi ॥ 42॥

atha yonimudrāphalakathanam ।

brahmahā bhrūṇahā caiva surāpī gurutalpagaḥ ।

etaiḥ pāpairna lipyeta yonimudrānibandhanāt ॥ 43॥

yāni pāpāni ghorāṇi upapāpāni yāni ca ।

tāni sarvāṇi naśyanti yonimudrānibandhanāt ।

tasmādabhyasanaṃ kuryādyadi muktiṃ samicchati ॥ 44॥

atha vajrolimudrākathanam ।

dharāmavaṣṭabhya karayostalābhyā-

mūrdhvaṃ kṣipetpādayugaṃ śiraḥ khe ।

śaktiprabodhāya cirajīvanāya

vajrolimudrāṃ munayo vadanti ॥ 45॥

atha vajrolimudrāyāḥ phalakathanam ।

ayaṃ yogo yogaśreṣṭho yogināṃ muktikāraṇam ।

ayaṃ hitaprado yogo yogināṃ siddhidāyakaḥ ॥ 46॥

etadyogaprasādena bindusiddhirbhaveddhruvam ।

siddhe bindau mahāyatne kiṃ na sidhyati bhūtale ॥ 47॥

bhogena mahatā yukto yadi mudrāṃ samācaret ।

tathā’pi sakalā siddhistasya bhavati niścitam ॥ 48॥

atha śakticālanīmudrākathanam ।

mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā ।

śayitā bhujagā”kārā sārdhatrivalayā’nvitā ॥ 49॥

yāvatsā nidritā dehe tāvajjīvaḥ paśuryathā ।

jñānaṃ na jāyate tāvatkoṭiyogaṃ samabhyaset ॥ 50॥

udghāṭayetkavāṭaṃ ca yathā kuñcikayā haṭhāt ।

kuṇḍalinyāḥ prabodhena brahmadvāraṃ prabhedayet ॥ 51॥

nābhiṃ saṃveṣṭya vastreṇa na ca nagno bahiḥ sthitaḥ ।

gopanīyagṛhe sthitvā śakticālanamabhyaset ॥ 52॥

vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam ।

mṛdulaṃ dhavalaṃ sūkṣmaṃ veṣṭanāmbaralakṣaṇam ।

evamambarayuktaṃ ca kaṭisūtreṇa yojayet ॥ 53॥

bhasmanā gātraṃ saṃlipya siddhāsanaṃ samācaret ।

nāsābhyāṃ prāṇamākṛṣya apāne yojayedbalāt ॥ 54॥

tāvadākuñcayedguhyaṃ śanairaśvinimudrayā ।

yāvadgacchetsuṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt ॥ 55॥

tadā vāyuprabandhena kumbhikā ca bhujaṅginī ।

baddhaśvāsastato bhūtvā ūrdhvamārgaṃ prapadyate ।

śabdadvayaṃ phalaikaṃ tu yonimudrāṃ ca cālayet ॥ 56॥

vinā śakticālanena yonimudrā na sidhyati ।

ādau cālanamabhyasya yonimudrāṃ samabhyaset ॥ 57॥

iti te kathitaṃ caṇḍakapāle śakticālanam ।

gopanīyaṃ prayatnena dine dine samabhyaset ॥ 58॥

atha śakticālanīmudrāyāḥ phalakathanam ।

mudreyaṃ paramā gopyā jarāmaraṇanāśinī ।

tasmādabhyasanaṃ kāryaṃ yogibhiḥ siddhikāṅkṣibhiḥ ॥ 59॥

nityaṃ yo’bhyasate yogī siddhistasya kare sthitā ।

tasya vigrahasiddhiḥ syādrogāṇāṃ saṅkṣayo bhavet ॥ 60॥

atha taḍāgīmudrākathanam ।

udaraṃ paścimottānaṃ kṛtvā ca taḍāgākṛti ।

taḍāgī sā parāmudrā jarāmṛtyuvināśinī ॥ 61॥

atha māṇḍukīmudrākathanam ।

mukhaṃ samudritaṃ kṛtvā jihvāmūlaṃ pracālayet ।

śanairgrasedamṛtaṃ tanmāṇḍukīṃ mudrikāṃ viduḥ ॥ 62॥

atha māṇḍukīmudrāyāḥ kathanam ।

valitaṃ palitaṃ naiva jāyate nityayauvanam ।

na keśe jāyate pāko yaḥ kuryānnityamāṇḍukīm ॥ 63॥

atha śāmbhavīmudrākathanam ।

netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet ।

sā bhavecchāmbhavī mudrā sarvatantreṣu gopitā ॥ 64॥

atha śāmbhavīmudrāyāḥ phalakathanam ।

vedaśāstrapurāṇāni sāmānyagaṇikā iva ।

iyaṃ tu śāmbhavī mudrā guptā kulavadhūriva ॥ 65॥

sa eva ādināthaśca sa ca nārāyaṇaḥ svayam ।

sa ca brahmā sṛṣṭikārī yo mudrāṃ vetti śāmbhavīm ॥ 66॥

satyaṃ satyaṃ punaḥ satyaṃ satyamuktaṃ maheśvaraḥ ।

śāmbhavīṃ yo vijānīyātsa ca brahma na cā’nyathā ॥ 67॥

atha pañcadhāraṇāmudrākathanam ।

kathitā śāmbhavī mudrā śa‍ṛṇuṣva pañcadhāraṇām ।

dhāraṇāni samāsādya kiṃ na sidhyati bhūtale ॥ 68॥

anena naradehena svargeṣu gamanā”gamam ।

manogatirbhavettasya khecaratvaṃ na cā’nyathā ॥ 69॥

atha pārthivīdhāraṇāmudrākathanam ।

yattattvaṃ haritāladeśaracitaṃ bhaumaṃ lakārā’nvitaṃ

vedāsraṃ kamalāsanena sahitaṃ kṛtvā hṛdi sthāyinam ।

prāṇaṃ tatra vilīya pañcaghaṭikāścittā’nvitaṃ dhārayed-

eṣā stambhakarī sadā kṣitijayaṃ kuryādadhodhāraṇā ॥ 70॥

atha pārthivīdhāraṇāmudrāyāḥ phalakathanam ।

pārthivīdhāraṇāmudrāṃ yaḥ karoti ca nityaśaḥ ।

mṛtyuñjayaḥ svayaṃ so’pi sa siddho vicaredbhuvi ॥ 71॥

athā”mbhasīdhāraṇāmudrākathanam ।

śaṅkhendupratimaṃ ca kundadhavalaṃ tattvaṃ kilālaṃ śubhaṃ

tatpīyūṣavakārabījasahitaṃ yuktaṃ sadā viṣṇunā ।

prāṇaṃ tatra vilīya pañcaghaṭikāścittā’nvitaṃ dhārayed-

eṣā duḥsahatāpapāpahariṇī syādāmbhasī dhāraṇā ॥ 72॥

athā”mbhasīdhāraṇāmudrāyāḥ phalakathanam ।

āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit ।

jale ca gabhīre ghore maraṇaṃ tasya no bhavet ॥ 73॥

iyaṃ tu paramā mudrā gopanīyā prayatnataḥ ।

prakāśātsiddhihāniḥ syātsatyaṃ vacmi ca tattvataḥ ॥ 74॥

athā”gneyīdhāraṇāmudrākathanam ।

yannābhisthitamindragopasadṛśaṃ bījaṃ trikoṇā’nvitaṃ

tattvaṃ tejamayaṃ pradīptamaruṇaṃ rudreṇa yatsiddhidam ।

prāṇaṃ tatra vilīya pañcaghaṭikāścittā’nvitaṃ dhārayed-

eṣā kālagabhīrabhītiharaṇī vaiśvānarī dhāraṇā ॥ 75॥

athā”gneyīdhāraṇāmudrāyāḥ phalakathanam ।

pradīpte jvalite vahnau yadi patati sādhakaḥ ।

etanmudrāprasādena sa jīvati na mṛtyubhāk ॥ 76॥

atha vāyavīdhāraṇāmudrākathanam ।

yadbhinnā’ñjanapuñjasaṃnibhamidaṃ dhūmrā’vabhāsaṃ

paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā ।

prāṇaṃ tatra vilīya pañcaghaṭikāścittā’nvitaṃ dhārayed-

eṣā khe gamanaṃ karoti yamināṃ syādvāyavī dhāraṇā ॥ 77॥

atha vāyavīdhāraṇāmudrāyāḥ phalakathanam ।

iyaṃ tu paramā mudrā jarāmṛtyuvināśinī ।

vāyunā mriyate nā’pi khe gateśca pradāyinī ॥ 78॥

śaṭhāya bhaktihīnāya na deyā yasya kasyacit ।

datte ca siddhihāniḥ syātsatyaṃ vacmi ca caṇḍa te ॥ 79॥

athā”kāśīdhāraṇāmudrākathanam ।

yatsindhau varaśuddhavārisadṛśaṃ vyomaṃ paraṃ bhāsitaṃ

tattvaṃ devasadāśivena sahitaṃ bījaṃ hakārā’nvitam ।

prāṇaṃ tatra vilīya pañcaghaṭikāścittā’nvitaṃ dhārayed

eṣā mokṣakavāṭabhedanakarī kuryānnabhodhāraṇām ॥ 80॥

athā”kāśīdhāraṇāmudrāyāḥ phalakathanam ।

ākāśīdhāraṇāṃ mudrāṃ yo vetti sa ca yogavit ।

na mṛtyurjāyate tasya pralaye nāvasīdati ॥ 81॥

athā’śvinīmudrākathanam ।

ākuñcayedgudadvāraṃ prakāśayetpunaḥ punaḥ ।

sā bhavedaśvinī mudrā śaktiprabodhakāriṇī ॥ 82॥

athā’śvinīmudrāyāḥ phalakathanam ।

aśvinī paramā mudrā guhyarogavināśinī ।

balapuṣṭikarī caiva akālamaraṇaṃ haret ॥ 83॥

atha paśinīmudrākathanam ।

kaṇṭhapṛṣṭe kṣipetpādau pāśavaddṛḍhabandhanam ।

saiva syātpāśinī mudrā śaktiprabodhakāriṇī ॥ 84॥

atha paśinīmudrāyāḥ phalakathanam ।

pāśinī mahatī mudrā balapuṣṭividhāyinī ।

sādhanīyā prayatnena sādhakaiḥ siddhikāṅkṣibhiḥ ॥ 85॥

atha kākīmudrākathanam ।

kākacañcuvadāsyena pibedvāyuṃ śanaiḥ śanaiḥ ।

kākī mudrā bhavedeṣā sarvarogavināśinī ॥ 86॥

atha kākīmudrāyāḥ phalakathanam ।

kākīmudrā parā mudrā sarvatantreṣu gopitā ।

asyāḥ prasādamātreṇa na rogī kākavadbhavet ॥ 87॥

atha mātaṅginīmudrākathanam ।

kaṇṭhamagne jale sthitvā nāsābhyāṃ jalamāharet ।

mukhānnirgamayetpaścātpunarvaktreṇa cā”haret ॥ 88॥

nāsābhyāṃ recayetpaścātkuryādevaṃ punaḥ punaḥ ।

mātaṅginī parā mudrā jarāmṛtyuvināśinī ॥ 89॥

atha mātaṅginīmudrāyāḥ phalakathanam ।

virale nirjane deśe sthitvā caikāgramānasaḥ ।

kuryānmātaṅginīṃ mudrāṃ mātaṅga iva jāyate ॥ 90॥

yatra yatra sthito yogī sukhamatyantamaśnute ।

tasmātsarvaprayatnena sādhayenmudrikāṃ parām ॥ 91॥

atha bhujaṅginīmudrākathanam ।

vaktraṃ kiñcitsuprasārya cā’nilaṃ galayā pibet ।

sā bhavedbhujaṅgī mudrā jarāmṛtyuvināśinī ॥ 92॥

atha bhujaṅginīmudrāyāḥ phalakathanam ।

yāvacca udare rogā ajīrṇādi viśeṣataḥ ।

tatsarvaṃ nāśayedāśu yatra mudrā bhujaṅginī ॥ 93॥

sarve rogā vinaśyanti bhujaṅgīmudrayā dhruvam ।

yogasiddhipradā ceyaṃ proktā yogaparāyaṇaiḥ ॥

atha mudrāṇāṃ phalakathanam ।

idaṃ tu mudrāpaṭalaṃ kathitaṃ caṇḍa te śubham ।

vallabhaṃ sarvasiddhānāṃ jarāmaraṇanāśanam ॥ 94॥

śaṭhāya bhaktihīnāya na deyaṃ yasya kasyacit ।

gopanīyaṃ prayatnena durlabhaṃ marutāmapi ॥ 95॥

ṛjave śāntacittāya gurubhaktiparāya ca ।

kulīnāya pradātavyaṃ bhogamuktipradāyakam ॥ 96॥

mudrāṇāṃ paṭalaṃ hyetatsarvavyādhivināśanam ।

nityamabhyāsaśīlasya jaṭharāgnivivardhanam ॥ 97॥

na tasya jāyate mṛtyurnāsya jarādikaṃ tathā ।

nāgnijalabhayaṃ tasya vāyorapi kuto bhayam ॥ 98॥

kāsaḥ śvāsaḥ plīhā kuṣṭhaṃ śleṣmarogāśca viṃśatiḥ ।

mudrāṇāṃ sādhanāccaiva vinaśyanti na saṃśayaḥ ॥ 99॥

bahunā kimihoktena sāraṃ vacmi ca caṇḍa te ।

nāsti mudrāsamaṃ kiñcitsiddhidaṃ kṣitimaṇḍale ॥ 100॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डकापालिसंवादे

घटस्थयोगप्रकरणे मुद्राप्रयोगो नाम तृतीयोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍakāpālisaṃvāde

ghaṭasthayogaprakaraṇe mudrāprayogo nāma tṛtīyopadeśaḥ oṃ ॥

प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः

घेरण्ड उवाच ।

अथाऽतः संप्रवक्ष्यामि प्रत्याहारमनुत्तमम् ।

यस्य विज्ञानमात्रेण कामादिरिपुनाशनम् ॥ १॥

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २॥

यत्र यत्र गता दृष्टिर्मनस्तत्र प्रगच्छति ।

ततः प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ३॥

पुरस्कारं तिरस्कारं सुश्राव्यं दुःश्रुतं तथा ।

मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत् ॥ ४॥

शीतं वाऽपि तथा चोष्णं यन्मनःस्पर्शयोगतः ।

तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ५॥

मधुराम्लकतिक्तादिरसं गतं यदा मनः ।

तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ६॥

सुगन्धे वाऽपि दुर्गन्धे घ्राणेषु जायते मनः ।

तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥ ७॥

शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।

कुर्याच्चित्तानुचारीणि प्रत्याहारपरायणः ॥ ८॥

वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।

इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ९॥

प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।

प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ॥ १०॥

यथा पर्वतधातूनां दोषा दह्यन्ति धाम्यताम् ।

तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ११॥

समः समासनो भूत्वा संहृत्य चरणावुभौ ।

संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः ॥ १२॥

पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः ।

किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ।

संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३॥

रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ।

सञ्चाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् ॥ १४॥

इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ।

निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥ १५॥

यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः ।

सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥ १६॥

स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ।

पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥ १७॥

तथा वै योगयुक्तस्य योगिनो नियतात्मनः ।

सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥ १८॥

pratyāhāraprayogo nāma caturthopadeśaḥ

gheraṇḍa uvāca ।

athā’taḥ saṃpravakṣyāmi pratyāhāramanuttamam ।

yasya vijñānamātreṇa kāmādiripunāśanam ॥ 1॥

yato yato niścarati manaścañcalamasthiram ।

tatastato niyamyaitadātmanyeva vaśaṃ nayet ॥ 2॥

yatra yatra gatā dṛṣṭirmanastatra pragacchati ।

tataḥ pratyāharedetadātmanyeva vaśaṃ nayet ॥ 3॥

puraskāraṃ tiraskāraṃ suśrāvyaṃ duḥśrutaṃ tathā ।

manastasmānniyamyaitadātmanyeva vaśaṃ nayet ॥ 4॥

śītaṃ vā’pi tathā coṣṇaṃ yanmanaḥsparśayogataḥ ।

tasmātpratyāharedetadātmanyeva vaśaṃ nayet ॥ 5॥

madhurāmlakatiktādirasaṃ gataṃ yadā manaḥ ।

tasmātpratyāharedetadātmanyeva vaśaṃ nayet ॥ 6॥

sugandhe vā’pi durgandhe ghrāṇeṣu jāyate manaḥ ।

tasmātpratyāharedetadātmanyeva vaśaṃ nayet ॥ 7॥

śabdādiṣvanuraktāni nigṛhyākṣāṇi yogavit ।

kuryāccittānucārīṇi pratyāhāraparāyaṇaḥ ॥ 8॥

vaśyatā paramā tena jāyate’ticalātmanām ।

indriyāṇāmavaśyaistairna yogī yogasādhakaḥ ॥ 9॥

prāṇāyāmairdaheddoṣāndhāraṇābhiśca kilbiṣam ।

pratyāhāreṇa viṣayāndhyānenānīśvarāṅguṇān ॥ 10॥

yathā parvatadhātūnāṃ doṣā dahyanti dhāmyatām ।

tathendriyakṛtā doṣā dahyante prāṇanigrahāt ॥ 11॥

samaḥ samāsano bhūtvā saṃhṛtya caraṇāvubhau ।

saṃvṛtāsyastathaivorū samyagviṣṭabhya cāgrataḥ ॥ 12॥

pārṣṇibhyāṃ liṅgavṛṣaṇāvaspṛśanprayataḥ sthitaḥ ।

kiñcidunnāmitaśirā dantairdantānna saṃspṛśet ।

saṃpaśyannāsikāgraṃ svaṃ diśaścānavalokayan ॥ 13॥

rajasā tamaso vṛttiṃ sattvena rajasastathā ।

sañcādya nirmale sattve sthito yuñjīta yogavit ॥ 14॥

indriyāṇīndriyārthebhyaḥ prāṇādīnmana eva ca ।

nigṛhya samavāyena pratyāhāramupakramet ॥ 15॥

yastu pratyāharetkāmānsarvāṅgānīva kacchapaḥ ।

sadātmaratirekasthaḥ paśyatyātmānamātmani ॥ 16॥

sa bāhyābhyantaraṃ śaucaṃ niṣpādyākaṇṭhanābhitaḥ ।

pūrayitvā budho dehaṃ pratyāhāramupakramet ॥ 17॥

tathā vai yogayuktasya yogino niyatātmanaḥ ।

sarve doṣāḥ praṇaśyanti svasthaścaivopajāyate ॥ 18॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे

प्रत्याहारप्रयोगो नाम चतुर्थोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭasthayoge

pratyāhāraprayogo nāma caturthopadeśaḥ oṃ ॥

प्राणायामप्रयोगो नाम पञ्चमोपदेशः

घेरण्ड उवाच ।

अथाऽतः संप्रवक्ष्यामि प्राणायामस्य यद्विधिम् ।

यस्य साधनमात्रेण देवतुल्यो भवेन्नरः ॥ १॥

आदौ स्थानं तथा कालं मिताऽहारं तथापरम् ।

नाडीशुद्धिं ततः पश्चात्प्राणायामं च साधयेत् ॥ २॥

अथ स्थाननिर्णयः ।

दूरदेशे तथाऽरण्ये राजधान्यां जनान्तिके ।

योगारम्भं न कुर्वीत कृतश्चेत्सिद्धिहा भवेत् ॥ ३॥

अविश्वासं दूरदेशे अरण्ये रक्षिवर्जितम् ।

लोकारण्ये प्रकाशश्च तस्मात्त्रीणि विवर्जयेत् ॥ ४॥

सुदेशे धार्मिके राज्ये सुभिक्षे निरुपद्रवे ।

तत्रैकं कुटिरं कृत्वा प्राचीरैः परिवेष्टितम् ॥ ५॥

वापीकूपतडागं च प्राचीरमध्यवर्ति च ।

नात्युच्चं नातिनिम्नं च कुटिरं कीटवर्जितम् ॥ ६॥

सम्यग्गोमयलिप्तं च कुटिरं तत्र निर्मितम् ।

एवं स्थाने हि गुप्ते च प्राणायामं समभ्यसेत् ॥ ७॥

अथ कालनिर्णयः ।

हेमन्ते शिशिरे ग्रीष्मे वर्षायां च ऋतौ तथा ।

योगारम्भं न कुर्वीत कृते योगो हि रोगदः ॥ ८॥

वसन्ते शरदि प्रोक्तं योगारम्भं समाचरेत् ।

तथा योगी भवेत्सिद्धो रोगान्मुक्तो भवेद्ध्रुवम् ॥ ९॥

चैत्रादिफाल्गुनान्ते च माघादिफाल्गुनान्तिके ।

द्वौ द्वौ मासावृतुभागावनुभावश्चतुश्चतुः ॥ १०॥

वसन्तश्चैत्रवैशाखौ ज्येष्ठाषाढौ च ग्रीष्मकौ ।

वर्षा श्रावणभाद्राभ्यां शरदाश्विनकार्तिकौ ।

मार्गपौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ॥ ११॥

अनुभावं प्रवक्ष्यामि ऋतूनां च यथोदितम् ।

माघादिमाधवान्तेषु वसन्तानुभवं विदुः ॥ १२॥

चैत्रादि चाषाढान्तं च निदाघानुभवं विदुः ।

आषाढादि चाश्विनान्तं प्रावृषानुभवं विदुः ॥ १३॥

भाद्रादिमार्गशीर्षान्तं शरदोऽनुभवं विदुः ।

कार्तिकादिमाघमासान्तं हेमन्तानुभवं विदुः ।

मार्गादिचतुरो मासाञ्शिशिरानुभवं विदुः ॥ १४॥

वसन्ते वापि शरदि योगारम्भं समाचरेत् ।

तदा योगी भवेत्सिद्धो विनाऽऽयासेन कथ्यते ॥ १५॥

अथ मिताहारः ।

मिताहारं विना यस्तु योगारम्भं तु कारयेत् ।

नानारोगो भवेत्तस्य किञ्चिद्योगो न सिध्यति ॥ १६॥

शाल्यन्नं यवपिष्टं वा गोधूमपिष्टकं तथा ।

मुद्गं माषचणकादि शुभ्रं च तुषवर्जितम् ॥ १७॥

पटोलं पनसं मानं कक्कोलं च शुकाशकम् ।

द्राढिकां कर्कटीं रम्भां डुम्बरीं कण्टकण्टकम् ॥ १८॥

आमरम्भां बालरम्भां रम्भादण्डं च मूलकम् ।

वार्ताकीं मूलकमृद्धिं योगी भक्षणमाचरेत् ॥ १९॥

बालशाकं कालशाकं तथा पटोलपत्रकम् ।

पञ्चशाकं प्रशंसीयाद्वास्तूकं हिलमोचिकाम् ॥ २०॥

शुद्धं सुमधुरं स्निग्धमुदरार्धविवर्जितम् ।

भुज्यते सुरसं प्रीत्या मिताहारमिमं विदुः ॥ २१॥

अन्नेन पूरयेदर्धं तोयेन तु तृतीयकम् ।

उदरस्य तुरीयांशं संरक्षेद्वायुचारणे ॥ २२॥

कट्वम्लं लवणं तिक्तं भृष्टं च दधि तक्रकम् ।

शाकोत्कटं तथा मद्यं तालं च पनसं तथा ॥ २३॥

कुलत्थं मसूरं पाण्डुं कूष्माण्डं शाकदण्डकम् ।

तुम्बीकोलकपित्थं च कण्टबिल्वं पलाशकम् ॥ २४॥

कदम्बं जम्बीरं बिम्बं लकुचं लशुनं विषम् ।

कामरङ्गं पियालं च हिङ्गुशाल्मलिकेमुकम् ॥ २५॥

योगारम्भे वर्जयेच्च पथस्त्रीवह्निसेवनम् ॥ २६॥

नवनीतं घृतं क्षीरं गुडं शर्करादि चैक्षवम् ।

पक्वरम्भां नारिकेलं दाडिम्बमशिवासवम् ।

द्राक्षां तु लवनीं धात्रीं रसमम्लविवर्जितम् ॥ २७॥

एलाजातिलवङ्गं च पौरुषं जम्बुजाम्बलम् ।

हरीतकीं खर्जूरं च योगी भक्षणमाचरेत् ॥ २८॥

लघुपाकं प्रियं स्निग्धं तथा धातुप्रपोषणम् ।

मनोऽभिलषितं योग्यं योगी भोजनमाचरेत् ॥ २९॥

काठिन्यं दुरितं पूतिमुष्णं पर्युषितं तथा ।

अतिशीतं चाति चोष्णं भक्ष्यं योगी विवर्जयेत् ॥ ३०॥

प्रातःस्नानोपवासादिकायक्लेशविधिं तथा ।

एकाहारं निराहारं यामान्ते च न कारयेत् ॥ ३१॥

एवं विधिविधानेन प्राणायामं समाचरेत् ।

आरम्भे प्रथमे कुर्यात्क्षीराज्यं नित्यभोजनम् ।

मध्याह्ने चैव सायाह्ने भोजनद्वयमाचरेत् ॥ ३२॥

अथ नाडीशुद्धिः ।

कुशासने मृगाजिने व्याघ्राजिने च कम्बले ।

स्थलासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ।

नाडीशुद्धिं समासाद्य प्राणायामं समभ्यसेत् ॥ ३३॥

चण्डकापालिरुवाच ।

नाडीशुद्धिं कथं कुर्यान्नाडीशुद्धिस्तु कीदृशी ।

तत्सर्वं श्रोतुमिच्छामि तद्वदस्व दयानिधे ॥ ३४॥

घेरण्ड उवाच ।

मलाकुलासु नाडीषु मारुतो नैव गच्छति ।

प्राणायामः कथं सिध्येत्तत्त्वज्ञानं कथं भवेत् ।

तस्मादादौ नडीशुद्धिं प्राणायामं ततोऽभ्यसेत् ॥ ३५॥

नाडीशुद्धिर्द्विधा प्रोक्ता समनुर्निर्मनुस्तथा ।

बीजेन समनुं कुर्यान्निर्मनुं धौतिकर्मणा ॥ ३६॥

धौतिकर्म पुरा प्रोक्तं षट्कर्मसाधने यथा ।

श‍ृणुष्व समनुं चण्ड नाडीशुद्धिर्यथा भवेत् ॥ ३७॥

उपविश्यासने योगी पद्मासनं समाचरेत् ।

गुर्वादिन्यासनं कुर्याद्यथैव गुरुभाषितम् ।

नाडीशुद्धिं प्रकुर्वीत प्राणायामविशुद्धये ॥ ३८॥

वायुबीजं ततो ध्यात्वा धूम्रवर्णं सतेजसम् ।

चन्द्रेण पूरयेद्वायुं बीजषोडशकैः सुधीः ॥ ३९॥

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् ।

द्वात्रिंशन्मात्रया वायुं सूर्यनाड्या च रेचयेत् ॥ ४०॥

नाभिमूलाद्वह्निमुत्थाप्य ध्यायेत्तेजोऽवनीयुतम् ।

वह्निबीजषोडशेन सूर्यनाड्या च पूरयेत् ॥ ४१॥

चतुःषष्ट्या मात्रया च कुम्भकेनैव धारयेत् ।

द्वात्रिंशन्मात्रया वायुं शशिनाड्या च रेचयेत् ॥ ४२॥

नासाग्रे शशधृग्बिम्बं ध्यात्वा ज्योत्स्नासमन्वितम् ।

ठं बीजं षोडशेनैव इडया पूरयेन्मरुत् ॥ ४३॥

चतुःषष्ट्या मात्रया च वं बीजेनैव धारयेत् ।

अमृतं प्लावितं ध्यात्वा नाडीधौतं विभावयेत् ।

लकारेण द्वात्रिंशेन दृढं भाव्यं विरेचयेत् ॥ ४४॥

एवंविधां नाडीशुद्धिं कृत्वा नाडीं विशोधयेत् ।

दृढो भूत्वाऽऽसनं कृत्वा प्राणायामं समाचरेत् ॥ ४५॥

सहितः सूर्यभेदश्च उज्जायी शीतली तथा ।

भस्त्रिका भ्रामरी मूर्च्छा केवली चाऽष्टकुम्भिकाः ॥ ४६॥

सहितो द्विविधः प्रोक्तः सगर्भश्च निगर्भकः ।

सगर्भो बीजमुच्चार्य निगर्भो बीजवर्जितः ॥ ४७॥

प्राणायामं सगर्भं च प्रथमं कथयामि ते ।

सुखाऽऽसने चोपविश्य प्राङ्मुखो वाऽप्युदङ्मुखः ।

ध्यायेद्विधिं रजोगुणं रक्तवर्णमवर्णकम् ॥ ४८॥

इडया पूरयेद्वायुं मात्रया षोडशैः सुधीः ।

पूरकान्ते कुम्भकाद्ये कर्तव्यस्तूड्डियानकः ॥ ४९॥

सत्त्वमयं हरिं ध्यात्वा उकारं कृष्णवर्णकम् ।

चतुःषष्ट्या च मात्रया कुम्भकेनैव धारयेत् ।

कुम्भकान्ते रेचकाद्ये कर्तव्यं च जालन्धरम् ॥ ५०॥

तमोमयं शिवं ध्यात्वा मकारं शुक्लवर्णकम् ।

द्वात्रिंशन्मात्रया चैव रेचयेद्विधिना पुनः ॥ ५१॥

पुनः पिङ्गलयाऽऽपूर्य कुम्भकेनैव धारयेत् ।

इडया रेचयेत्पश्चात्तद्बीजेन क्रमेण तु ॥ ५२॥

अनुलोमविलोमेन वारं वारं च साधयेत् ।

पूरकान्ते कुम्भकान्तं धृतनासापुटद्वयम् ।

कनिष्ठाऽनामिकाऽङ्गुष्ठैस्तर्जनीमध्यमे विना ॥ ५३॥

प्राणायामो निगर्भस्तु विना बीजेन जायते ।

वामजानूपरिन्यस्तवामपाणितलं भ्रमेत् ।

मात्रादिशतपर्यन्तं पूरकुम्भकरेचनम् ॥ ५४॥

(प्राणायामो हि सहितो गायत्र्यापि सुसिध्यति ।

कर्मकाण्डे विधेयोऽसौ नान्यत्र क्वचिदाष्यते ॥

केवलैर्बीजमन्त्रैर्वा केवलप्रणवेन वा ।

आरुरुक्षोर्योगिनो हि कृतोऽयं शिवदो भवेत् ॥)

उत्तमा विंशतिर्मात्रा षोडशी मात्रा मध्यमा ।

अधमा द्वादशी मात्रा प्राणायामास्त्रिधा स्मृताः ॥ ५५॥

अधमाज्जायते घर्मो मेरुकम्पश्च मध्यमात् ।

उत्तमाच्च भूमित्यागस्त्रिविधं सिद्धिलक्षणम् ॥ ५६॥

प्राणायामात्खेचरत्वं प्राणायामाद्रोगनाशनम् ।

प्राणायामाद्बोधयेच्छक्तिं प्राणायामान्मनोन्मनी ।

आनन्दो जायते चित्ते प्राणायामी सुखी भवेत् ॥ ५७॥

अथ सूर्यभेदकुम्भकः ।

घेरण्ड उवाच ।

कथितं सहितं कुम्भं सूर्यभेदनकं श‍ृणु ।

पूरयेत्सूर्यनाड्या च यथाशक्ति बहिर्मरुत् ॥ ५८॥

धारयेद्बहुयत्नेन कुम्भकेन जलन्धरैः ।

यावत्स्वेदं नखकेशाभ्यां तावत्कुर्वन्तु कुम्भकम् ॥ ५९॥

प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ।

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६०॥

हृदि प्राणो वहेन्नित्यमपानो गुदमण्डले ।

समानो नाभिदेशे तु उदानः कण्ठमध्यगः ॥ ६१॥

व्यानो व्याप्य शरीरे तु प्रधानाः पञ्च वायवः ।

प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ६२॥

तेषामपि च पञ्चानां स्थानानि च वदाम्यहम् ।

उद्गारे नाग आख्यातः कूर्मस्तून्मीलने स्मृतः ॥ ६३॥

कृकरः क्षुत्कृते ज्ञेयो देवदत्तो विजृम्भणे ।

न जहाति मृते क्वाऽपि सर्वव्यापी धनञ्जयः ॥ ६४॥

नागो गृह्णाति चैतन्यं कूर्मश्चैव निमेषणम् ।

क्षुत्तृषं कृकरश्चैव जृम्भणं चतुर्थेन तु ।

भवेद्धनञ्जयाच्छब्दं क्षणमात्रं न निःसरेत्

चित्तं धनञ्जयः शब्दं लक्षमात्रं न विस्मरेत् ॥ ६५॥

अथ सूर्यभेदकः कुम्भकः ।

सर्वे ते सूर्यसम्भिन्ना नाभिमूलात्समुद्धरेत् ।

इडया रेचयेत्पश्चाद्धैर्येणाऽखण्डवेगतः ॥ ६६॥

पुनः सूर्येण चाऽकृष्य कुम्भयित्वा यथाविधि ।

रेचयित्वा साधयेत्तु क्रमेण च पुनः पुनः ॥ ६७॥

कुम्भकः सूर्यभेदस्तु जरामृत्युविनाशकः ।

बोधयेत्कुण्डलीं शक्तिं देहानलं विवर्धयेत् ।

इति ते कथितं चण्ड सूर्यभेदनमुत्तमम् ॥ ६८॥

अथ उज्जायी कुम्भकः ।

नासाभ्यां वायुमाकृष्य मुखमध्ये च धारयेत् ।

हृद्गलाभ्यां समाकृष्य वायुं वक्त्रे च धारयेत् ॥ ६९॥

मुखं प्रफुल्लं संरक्ष्य कुर्याज्जालन्धरं ततः ।

आशक्ति कुम्भकं कृत्वा धारयेदविरोधतः ॥ ७०॥

उज्जायीकुम्भकं कृत्वा सर्वकार्याणि साधयेत् ।

न भवेत्कफरोगश्च क्रूरवायुरजीर्णकम् ॥ ७१॥

आमवातः क्षयः कासो ज्वरप्लीहा न विद्यते ।

जरामृत्युविनाशाय चोज्जायीं साधयेन्नरः ।

नश्यन्ति सकला रोगाः साधनादस्य निश्चितम् ॥ ७२॥

अथ शीतलीकुम्भकः ।

जिह्वया वायुमाकृष्य उदरे पूरयेच्छनैः ।

क्षणं च कुम्भकं कृत्वा नासाभ्यां रेचयेत्पुनः ॥ ७३॥

सर्वदा साधयेद्योगी शीतलीकुम्भकं शुभम् ।

अजीर्णं कफपित्तं च नैव तस्य प्रजायते ॥ ७४॥

अथ भस्त्रिकाकुम्भकः ।

भस्त्रैव लोहकाराणां यथाक्रमेण सम्भ्रमेत् ।

तथा वायुं च नासाभ्यामुभाभ्यां चालयेच्छनैः ॥ ७५॥

एवं विंशतिवारं च कृत्वा कुर्याच्च कुम्भकम् ।

तदन्ते चालयेद्वायुं पूर्वोक्तं च यथाविधि ॥ ७६॥

त्रिवारं साधयेदेनं भस्त्रिकाकुम्भकं सुधीः ।

न च रोगो न च क्लेश आरोग्यं च दिने दिने ॥ ७७॥

अथ भ्रामरीकुम्भकः ।

अर्धरात्रे गते योगी जन्तूनां शब्दवर्जिते ।

कर्णौ पिधाय हस्ताभ्यां कुर्यात्पूरककुम्भकम् ॥ ७८॥

श‍ृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं शुभम् ।

प्रथमं ज़िंज़ीनादं च वंशीनादं ततः परम् ॥ ७९॥

मेघज़र्ज़रभ्रामरी घण्टाकांस्यं ततः परम् ।

तुरीभेरीमृदङ्गादिनिनादानकदुन्दुभिः ॥ ८०॥

एवं नानाविधो नादो जायते नित्यमभ्यसात् ।

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ॥ ८१॥

ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।

तन्मनो विलयं याति तद्विष्णोः परमं पदम् ।

एवं भ्रामरीसंसिद्धिः समाधिसिद्धिमाप्नुयात् ॥ ८२॥

जपादष्टगुणं ध्यानं ध्यानादष्टगुणं तपः ।

तपसोऽष्टगुणं गानं गानात्परतरं नहि ॥

अथ मूर्च्छाकुम्भकः ।

सुखेन कुम्भकं कृत्वा मनश्च भ्रुवोरन्तरम् ।

सन्त्यज्य विषयान्सर्वान्मनोमूर्च्छा सुखप्रदा ।

आत्मनि मनसो योगादानन्दो जायते ध्रुवम् ॥ ८३॥

एवं नानाविधाऽऽनन्दो जायते नित्यमभ्यासात् ।

एवमभ्यासयोगेन समाधिसिद्धिमाप्नुयात् ॥ ८४॥

मूर्च्छाप्राणायामतोऽस्मात्प्रत्याहारः सुसिध्यति ।

वासनायाः क्षयस्तत्त्वज्ञानकार्यं मनोलयः ॥

अनेन प्राणायामेन मनोनाशो भवत्यलम् ।

सर्वाधिव्याधिविलये महौषधमयं ध्रुवम् ॥

भुजङ्गिन्याः श्वासवशादजपा जायते ननु ।

हङ्कारेण बहिर्याति सःकारेण विशेत्पुनः ॥ ८५॥

षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ।

अजपां नाम गायत्रीं जीवो जपति सर्वदा ॥ ८६॥

मूलाऽऽधारे यथा हंसस्तथा हि हृदि पङ्कजे ।

तथा नासापुटद्वन्द्वे त्रिभिर्हंससमागमः ॥ ८७॥

षण्णवत्यङ्गुलीमानं शरीरं कर्मरूपकम् ।

देहाद्बहिर्गतो वायुः स्वभावाद्द्वादशाङ्गुलिः ॥ ८८॥

गायने षोडशाङ्गुल्यो भोजने विंशतिस्तथा ।

चतुर्विंशाङ्गुलिः पन्थे निद्रायां त्रिंशदङ्गुलिः ।

मैथुने षट्त्रिंशदुक्तं व्यायामे च ततोऽधिकम् ॥ ८९॥

स्वभावेऽस्य गतेर्न्यूने परमायुः प्रवर्धते ।

आयुःक्षयोऽधिके प्रोक्तो मारुते चाऽन्तराद्गते ॥ ९०॥

तस्मात्प्राणे स्थिते देहे मरणं नैव जायते ।

वायुना घटसम्बन्धे भवेत्केवलकुम्भकम् ॥ ९१॥

यावज्जीवं जपेन्मन्त्रमजपासङ्ख्यकेवलम् सङ्ख्या द्विगुणा ।

अद्यावधि धृतं सङ्ख्याविभ्रमं केवलीकृते ॥ ९२॥

अत एव हि कर्तव्यः केवलीकुम्भको नरैः ।

केवली चाऽजपासङ्ख्या द्विगुणा च मनोन्मनी ॥ ९३॥

नासाभ्यां वायुमाकृष्य केवलं कुम्भकं चरेत् ।

एकादिकचतुःषष्टिं धारयेत्प्रथमे दिने ॥ ९४॥

केवलीमष्टधा कुर्याद्यामे यामे दिने दिने ।

अथवा पञ्चधा कुर्याद्यथा तत्कथयामि ते ॥ ९५॥

प्रातर्मध्याह्नसायाह्ने मध्ये रात्रिचतुर्थके ।

त्रिसन्ध्यमथवा कुर्यात्सममाने दिने दिने ॥ ९६॥

पञ्चवारं दिने वृद्धिर्वारैकं च दिने तथा ।

अजपापरिमाणं च यावत्सिद्धिः प्रजायते ॥ ९७॥

प्राणायामं केवलीं च तदा वदति योगवित् ।

केवलीकुम्भके सिद्धे किं न सिध्यति भूतले ॥ ९८॥

prāṇāyāmaprayogo nāma pañcamopadeśaḥ

gheraṇḍa uvāca ।

athā’taḥ saṃpravakṣyāmi prāṇāyāmasya yadvidhim ।

yasya sādhanamātreṇa devatulyo bhavennaraḥ ॥ 1॥

ādau sthānaṃ tathā kālaṃ mitā’hāraṃ tathāparam ।

nāḍīśuddhiṃ tataḥ paścātprāṇāyāmaṃ ca sādhayet ॥ 2॥

atha sthānanirṇayaḥ ।

dūradeśe tathā’raṇye rājadhānyāṃ janāntike ।

yogārambhaṃ na kurvīta kṛtaścetsiddhihā bhavet ॥ 3॥

aviśvāsaṃ dūradeśe araṇye rakṣivarjitam ।

lokāraṇye prakāśaśca tasmāttrīṇi vivarjayet ॥ 4॥

sudeśe dhārmike rājye subhikṣe nirupadrave ।

tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭitam ॥ 5॥

vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca ।

nātyuccaṃ nātinimnaṃ ca kuṭiraṃ kīṭavarjitam ॥ 6॥

samyaggomayaliptaṃ ca kuṭiraṃ tatra nirmitam ।

evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset ॥ 7॥

atha kālanirṇayaḥ ।

hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā ।

yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ ॥ 8॥

vasante śaradi proktaṃ yogārambhaṃ samācaret ।

tathā yogī bhavetsiddho rogānmukto bhaveddhruvam ॥ 9॥

caitrādiphālgunānte ca māghādiphālgunāntike ।

dvau dvau māsāvṛtubhāgāvanubhāvaścatuścatuḥ ॥ 10॥

vasantaścaitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau ।

varṣā śrāvaṇabhādrābhyāṃ śaradāśvinakārtikau ।

mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau ॥ 11॥

anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam ।

māghādimādhavānteṣu vasantānubhavaṃ viduḥ ॥ 12॥

caitrādi cāṣāḍhāntaṃ ca nidāghānubhavaṃ viduḥ ।

āṣāḍhādi cāśvināntaṃ prāvṛṣānubhavaṃ viduḥ ॥ 13॥

bhādrādimārgaśīrṣāntaṃ śarado’nubhavaṃ viduḥ ।

kārtikādimāghamāsāntaṃ hemantānubhavaṃ viduḥ ।

mārgādicaturo māsāñśiśirānubhavaṃ viduḥ ॥ 14॥

vasante vāpi śaradi yogārambhaṃ samācaret ।

tadā yogī bhavetsiddho vinā”yāsena kathyate ॥ 15॥

atha mitāhāraḥ ।

mitāhāraṃ vinā yastu yogārambhaṃ tu kārayet ।

nānārogo bhavettasya kiñcidyogo na sidhyati ॥ 16॥

śālyannaṃ yavapiṣṭaṃ vā godhūmapiṣṭakaṃ tathā ।

mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam ॥ 17॥

paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam ।

drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam ॥ 18॥

āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam ।

vārtākīṃ mūlakamṛddhiṃ yogī bhakṣaṇamācaret ॥ 19॥

bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam ।

pañcaśākaṃ praśaṃsīyādvāstūkaṃ hilamocikām ॥ 20॥

śuddhaṃ sumadhuraṃ snigdhamudarārdhavivarjitam ।

bhujyate surasaṃ prītyā mitāhāramimaṃ viduḥ ॥ 21॥

annena pūrayedardhaṃ toyena tu tṛtīyakam ।

udarasya turīyāṃśaṃ saṃrakṣedvāyucāraṇe ॥ 22॥

kaṭvamlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam ।

śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā ॥ 23॥

kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam ।

tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam ॥ 24॥

kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam ।

kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam ॥ 25॥

yogārambhe varjayecca pathastrīvahnisevanam ॥ 26॥

navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam ।

pakvarambhāṃ nārikelaṃ dāḍimbamaśivāsavam ।

drākṣāṃ tu lavanīṃ dhātrīṃ rasamamlavivarjitam ॥ 27॥

elājātilavaṅgaṃ ca pauruṣaṃ jambujāmbalam ।

harītakīṃ kharjūraṃ ca yogī bhakṣaṇamācaret ॥ 28॥

laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam ।

mano’bhilaṣitaṃ yogyaṃ yogī bhojanamācaret ॥ 29॥

kāṭhinyaṃ duritaṃ pūtimuṣṇaṃ paryuṣitaṃ tathā ।

atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet ॥ 30॥

prātaḥsnānopavāsādikāyakleśavidhiṃ tathā ।

ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet ॥ 31॥

evaṃ vidhividhānena prāṇāyāmaṃ samācaret ।

ārambhe prathame kuryātkṣīrājyaṃ nityabhojanam ।

madhyāhne caiva sāyāhne bhojanadvayamācaret ॥ 32॥

atha nāḍīśuddhiḥ ।

kuśāsane mṛgājine vyāghrājine ca kambale ।

sthalāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ ।

nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset ॥ 33॥

caṇḍakāpāliruvāca ।

nāḍīśuddhiṃ kathaṃ kuryānnāḍīśuddhistu kīdṛśī ।

tatsarvaṃ śrotumicchāmi tadvadasva dayānidhe ॥ 34॥

gheraṇḍa uvāca ।

malākulāsu nāḍīṣu māruto naiva gacchati ।

prāṇāyāmaḥ kathaṃ sidhyettattvajñānaṃ kathaṃ bhavet ।

tasmādādau naḍīśuddhiṃ prāṇāyāmaṃ tato’bhyaset ॥ 35॥

nāḍīśuddhirdvidhā proktā samanurnirmanustathā ।

bījena samanuṃ kuryānnirmanuṃ dhautikarmaṇā ॥ 36॥

dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā ।

śa‍ṛṇuṣva samanuṃ caṇḍa nāḍīśuddhiryathā bhavet ॥ 37॥

upaviśyāsane yogī padmāsanaṃ samācaret ।

gurvādinyāsanaṃ kuryādyathaiva gurubhāṣitam ।

nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye ॥ 38॥

vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam ।

candreṇa pūrayedvāyuṃ bījaṣoḍaśakaiḥ sudhīḥ ॥ 39॥

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet ।

dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet ॥ 40॥

nābhimūlādvahnimutthāpya dhyāyettejo’vanīyutam ।

vahnibījaṣoḍaśena sūryanāḍyā ca pūrayet ॥ 41॥

catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet ।

dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet ॥ 42॥

nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam ।

ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayenmarut ॥ 43॥

catuḥṣaṣṭyā mātrayā ca vaṃ bījenaiva dhārayet ।

amṛtaṃ plāvitaṃ dhyātvā nāḍīdhautaṃ vibhāvayet ।

lakāreṇa dvātriṃśena dṛḍhaṃ bhāvyaṃ virecayet ॥ 44॥

evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet ।

dṛḍho bhūtvā”sanaṃ kṛtvā prāṇāyāmaṃ samācaret ॥ 45॥

sahitaḥ sūryabhedaśca ujjāyī śītalī tathā ।

bhastrikā bhrāmarī mūrcchā kevalī cā’ṣṭakumbhikāḥ ॥ 46॥

sahito dvividhaḥ proktaḥ sagarbhaśca nigarbhakaḥ ।

sagarbho bījamuccārya nigarbho bījavarjitaḥ ॥ 47॥

prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te ।

sukhā”sane copaviśya prāṅmukho vā’pyudaṅmukhaḥ ।

dhyāyedvidhiṃ rajoguṇaṃ raktavarṇamavarṇakam ॥ 48॥

iḍayā pūrayedvāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ ।

pūrakānte kumbhakādye kartavyastūḍḍiyānakaḥ ॥ 49॥

sattvamayaṃ hariṃ dhyātvā ukāraṃ kṛṣṇavarṇakam ।

catuḥṣaṣṭyā ca mātrayā kumbhakenaiva dhārayet ।

kumbhakānte recakādye kartavyaṃ ca jālandharam ॥ 50॥

tamomayaṃ śivaṃ dhyātvā makāraṃ śuklavarṇakam ।

dvātriṃśanmātrayā caiva recayedvidhinā punaḥ ॥ 51॥

punaḥ piṅgalayā”pūrya kumbhakenaiva dhārayet ।

iḍayā recayetpaścāttadbījena krameṇa tu ॥ 52॥

anulomavilomena vāraṃ vāraṃ ca sādhayet ।

pūrakānte kumbhakāntaṃ dhṛtanāsāpuṭadvayam ।

kaniṣṭhā’nāmikā’ṅguṣṭhaistarjanīmadhyame vinā ॥ 53॥

prāṇāyāmo nigarbhastu vinā bījena jāyate ।

vāmajānūparinyastavāmapāṇitalaṃ bhramet ।

mātrādiśataparyantaṃ pūrakumbhakarecanam ॥ 54॥

(prāṇāyāmo hi sahito gāyatryāpi susidhyati ।

karmakāṇḍe vidheyo’sau nānyatra kvacidāṣyate ॥

kevalairbījamantrairvā kevalapraṇavena vā ।

ārurukṣoryogino hi kṛto’yaṃ śivado bhavet ॥)

uttamā viṃśatirmātrā ṣoḍaśī mātrā madhyamā ।

adhamā dvādaśī mātrā prāṇāyāmāstridhā smṛtāḥ ॥ 55॥

adhamājjāyate gharmo merukampaśca madhyamāt ।

uttamācca bhūmityāgastrividhaṃ siddhilakṣaṇam ॥ 56॥

prāṇāyāmātkhecaratvaṃ prāṇāyāmādroganāśanam ।

prāṇāyāmādbodhayecchaktiṃ prāṇāyāmānmanonmanī ।

ānando jāyate citte prāṇāyāmī sukhī bhavet ॥ 57॥

atha sūryabhedakumbhakaḥ ।

gheraṇḍa uvāca ।

kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śa‍ṛṇu ।

pūrayetsūryanāḍyā ca yathāśakti bahirmarut ॥ 58॥

dhārayedbahuyatnena kumbhakena jalandharaiḥ ।

yāvatsvedaṃ nakhakeśābhyāṃ tāvatkurvantu kumbhakam ॥ 59॥

prāṇo’pānaḥ samānaścodānavyānau tathaiva ca ।

nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ॥ 60॥

hṛdi prāṇo vahennityamapāno gudamaṇḍale ।

samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ ॥ 61॥

vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ ।

prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ ॥ 62॥

teṣāmapi ca pañcānāṃ sthānāni ca vadāmyaham ।

udgāre nāga ākhyātaḥ kūrmastūnmīlane smṛtaḥ ॥ 63॥

kṛkaraḥ kṣutkṛte jñeyo devadatto vijṛmbhaṇe ।

na jahāti mṛte kvā’pi sarvavyāpī dhanañjayaḥ ॥ 64॥

nāgo gṛhṇāti caitanyaṃ kūrmaścaiva nimeṣaṇam ।

kṣuttṛṣaṃ kṛkaraścaiva jṛmbhaṇaṃ caturthena tu ।

bhaveddhanañjayācchabdaṃ kṣaṇamātraṃ na niḥsaret

cittaṃ dhanañjayaḥ śabdaṃ lakṣamātraṃ na vismaret ॥ 65॥

atha sūryabhedakaḥ kumbhakaḥ ।

sarve te sūryasambhinnā nābhimūlātsamuddharet ।

iḍayā recayetpaścāddhairyeṇā’khaṇḍavegataḥ ॥ 66॥

punaḥ sūryeṇa cā’kṛṣya kumbhayitvā yathāvidhi ।

recayitvā sādhayettu krameṇa ca punaḥ punaḥ ॥ 67॥

kumbhakaḥ sūryabhedastu jarāmṛtyuvināśakaḥ ।

bodhayetkuṇḍalīṃ śaktiṃ dehānalaṃ vivardhayet ।

iti te kathitaṃ caṇḍa sūryabhedanamuttamam ॥ 68॥

atha ujjāyī kumbhakaḥ ।

nāsābhyāṃ vāyumākṛṣya mukhamadhye ca dhārayet ।

hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktre ca dhārayet ॥ 69॥

mukhaṃ praphullaṃ saṃrakṣya kuryājjālandharaṃ tataḥ ।

āśakti kumbhakaṃ kṛtvā dhārayedavirodhataḥ ॥ 70॥

ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet ।

na bhavetkapharogaśca krūravāyurajīrṇakam ॥ 71॥

āmavātaḥ kṣayaḥ kāso jvaraplīhā na vidyate ।

jarāmṛtyuvināśāya cojjāyīṃ sādhayennaraḥ ।

naśyanti sakalā rogāḥ sādhanādasya niścitam ॥ 72॥

atha śītalīkumbhakaḥ ।

jihvayā vāyumākṛṣya udare pūrayecchanaiḥ ।

kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayetpunaḥ ॥ 73॥

sarvadā sādhayedyogī śītalīkumbhakaṃ śubham ।

ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate ॥ 74॥

atha bhastrikākumbhakaḥ ।

bhastraiva lohakārāṇāṃ yathākrameṇa sambhramet ।

tathā vāyuṃ ca nāsābhyāmubhābhyāṃ cālayecchanaiḥ ॥ 75॥

evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam ।

tadante cālayedvāyuṃ pūrvoktaṃ ca yathāvidhi ॥ 76॥

trivāraṃ sādhayedenaṃ bhastrikākumbhakaṃ sudhīḥ ।

na ca rogo na ca kleśa ārogyaṃ ca dine dine ॥ 77॥

atha bhrāmarīkumbhakaḥ ।

ardharātre gate yogī jantūnāṃ śabdavarjite ।

karṇau pidhāya hastābhyāṃ kuryātpūrakakumbhakam ॥ 78॥

śa‍ṛṇuyāddakṣiṇe karṇe nādamantargataṃ śubham ।

prathamaṃ ja़iṃja़īnādaṃ ca vaṃśīnādaṃ tataḥ param ॥ 79॥

meghaja़rja़rabhrāmarī ghaṇṭākāṃsyaṃ tataḥ param ।

turībherīmṛdaṅgādininādānakadundubhiḥ ॥ 80॥

evaṃ nānāvidho nādo jāyate nityamabhyasāt ।

anāhatasya śabdasya tasya śabdasya yo dhvaniḥ ॥ 81॥

dhvanerantargataṃ jyotirjyotirantargataṃ manaḥ ।

tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam ।

evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhimāpnuyāt ॥ 82॥

japādaṣṭaguṇaṃ dhyānaṃ dhyānādaṣṭaguṇaṃ tapaḥ ।

tapaso’ṣṭaguṇaṃ gānaṃ gānātparataraṃ nahi ॥

atha mūrcchākumbhakaḥ ।

sukhena kumbhakaṃ kṛtvā manaśca bhruvorantaram ।

santyajya viṣayānsarvānmanomūrcchā sukhapradā ।

ātmani manaso yogādānando jāyate dhruvam ॥ 83॥

evaṃ nānāvidhā”nando jāyate nityamabhyāsāt ।

evamabhyāsayogena samādhisiddhimāpnuyāt ॥ 84॥

mūrcchāprāṇāyāmato’smātpratyāhāraḥ susidhyati ।

vāsanāyāḥ kṣayastattvajñānakāryaṃ manolayaḥ ॥

anena prāṇāyāmena manonāśo bhavatyalam ।

sarvādhivyādhivilaye mahauṣadhamayaṃ dhruvam ॥

bhujaṅginyāḥ śvāsavaśādajapā jāyate nanu ।

haṅkāreṇa bahiryāti saḥkāreṇa viśetpunaḥ ॥ 85॥

ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiḥ ।

ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā ॥ 86॥

mūlā”dhāre yathā haṃsastathā hi hṛdi paṅkaje ।

tathā nāsāpuṭadvandve tribhirhaṃsasamāgamaḥ ॥ 87॥

ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam ।

dehādbahirgato vāyuḥ svabhāvāddvādaśāṅguliḥ ॥ 88॥

gāyane ṣoḍaśāṅgulyo bhojane viṃśatistathā ।

caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ ।

maithune ṣaṭtriṃśaduktaṃ vyāyāme ca tato’dhikam ॥ 89॥

svabhāve’sya gaternyūne paramāyuḥ pravardhate ।

āyuḥkṣayo’dhike prokto mārute cā’ntarādgate ॥ 90॥

tasmātprāṇe sthite dehe maraṇaṃ naiva jāyate ।

vāyunā ghaṭasambandhe bhavetkevalakumbhakam ॥ 91॥

yāvajjīvaṃ japenmantramajapāsaṅkhyakevalam saṅkhyā dviguṇā ।

adyāvadhi dhṛtaṃ saṅkhyāvibhramaṃ kevalīkṛte ॥ 92॥

ata eva hi kartavyaḥ kevalīkumbhako naraiḥ ।

kevalī cā’japāsaṅkhyā dviguṇā ca manonmanī ॥ 93॥

nāsābhyāṃ vāyumākṛṣya kevalaṃ kumbhakaṃ caret ।

ekādikacatuḥṣaṣṭiṃ dhārayetprathame dine ॥ 94॥

kevalīmaṣṭadhā kuryādyāme yāme dine dine ।

athavā pañcadhā kuryādyathā tatkathayāmi te ॥ 95॥

prātarmadhyāhnasāyāhne madhye rātricaturthake ।

trisandhyamathavā kuryātsamamāne dine dine ॥ 96॥

pañcavāraṃ dine vṛddhirvāraikaṃ ca dine tathā ।

ajapāparimāṇaṃ ca yāvatsiddhiḥ prajāyate ॥ 97॥

prāṇāyāmaṃ kevalīṃ ca tadā vadati yogavit ।

kevalīkumbhake siddhe kiṃ na sidhyati bhūtale ॥ 98॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे

प्राणायामप्रयोगो नाम पञ्चमोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭasthayogaprakaraṇe

prāṇāyāmaprayogo nāma pañcamopadeśaḥ oṃ ॥

ध्यानयोगो नाम षष्ठोपदेशः

घेरण्ड उवाच ।

स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः ।

स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा ।

सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डलीपरदेवता ॥ १॥

अथ स्थूलध्यानम् ।

स्वकीयहृदये ध्यायेत्सुधासागरमुत्तमम् ।

तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥ २॥

चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम् ।

नीपोपवनसङ्कुलैर्वेष्टितं परिखा इव ॥ ३॥

मालतीमल्लिकाजातीकेसरैश्चम्पकैस्तथा ।

पारिजातैः स्थलपद्मैर्गन्धामोदितदिङ्मुखैः ॥ ४॥

तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोहरम् ।

चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥ ५॥

भ्रमराः कोकिलास्तत्र गुञ्जन्ति निगदन्ति च ।

ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥ ६॥

तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम् ।

तत्रेष्टदेवतां ध्यायेद्यद्ध्यानं गुरुभाषितम् ॥ ७॥

यस्य देवस्य यद्रूपं यथा भूषणवाहनम् ।

तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदुः ॥ ८॥

प्रकारान्तरम् ।

सहस्रारे महापद्मे कर्णिकायां विचिन्तयेत् ।

विलग्नसहितं पद्मं द्वादशैर्दलसंयुतम् ॥ ९॥

शुक्लवर्णं महातेजो द्वादशैर्बीजभाषितम् ।

हसक्षमलवरयुं हसखफ्रें यथाक्रमम् ॥ १०॥

तन्मध्ये कर्णिकायां तु अकथादिरेखात्रयम् ।

हळक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥ ११॥

नादबिन्दुमयं पीठं ध्यायेत्तत्र मनोहरम् ।

तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥ १२॥

ध्यायेत्तत्र गुरुं देवं द्विभुजं च त्रिलोचनम् ।

श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥ १३॥

शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम् ।

एवंविधगुरुध्यानात्स्थूलध्यानं प्रसिध्यति ॥ १४॥

अथ ज्योतिर्ध्यानम् ।

घेरण्ड उवाच ।

कथितं स्थूलध्यानं तु तेजोध्यानं श‍ृणुष्व मे ।

यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ॥ १५॥

मूलाऽऽधारे कुण्डलिनी भुजगाकाररूपिणी ।

जीवाऽऽत्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः ।

ध्यायेत्तेजोमयं ब्रह्म तेजोध्यानं परात्परम् ॥ १६॥

प्रकारान्तरम् ।

नाभिमूले स्थितं सूर्यमण्डलं वह्निसंयुतम् ।

ध्यायेत्तेजो महद्व्याप्तं तेजोध्यानं तदेव हि ॥ १७॥

प्रकारान्तरम् ।

भ्रुवोर्मध्ये मनोर्ध्वे च यत्तेजः प्रणवाऽऽत्मकम् ।

ध्यायेज्ज्वालाऽऽवलीयुक्तं तेजोध्यानं तदेव हि ॥ १८॥

अथ सूक्ष्मध्यानम् ।

घेरण्ड उवाच ।

तेजोध्यानं श्रुतं चण्ड सूक्ष्मध्यानं श‍ृणुष्व मे ।

बहुभाग्यवशाद्यस्य कुण्डली जाग्रती भवेत् ॥ १९॥

आत्मना सह योगेन नेत्ररन्ध्राद्विनिर्गता ।

विहरेद्राजमार्गे च चञ्चलत्वान्न दृश्यते ॥ २०॥

शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति ।

सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ॥ २१॥

स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते ।

तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥ २२॥

इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम् ।

आत्मा साक्षाद्भवेद्यस्मात्तस्माद्ध्यानं विशिष्यते ॥ २३॥

dhyānayogo nāma ṣaṣṭhopadeśaḥ

gheraṇḍa uvāca ।

sthūlaṃ jyotistathā sūkṣmaṃ dhyānasya trividhaṃ viduḥ ।

sthūlaṃ mūrtimayaṃ proktaṃ jyotistejomayaṃ tathā ।

sūkṣmaṃ bindumayaṃ brahma kuṇḍalīparadevatā ॥ 1॥

atha sthūladhyānam ।

svakīyahṛdaye dhyāyetsudhāsāgaramuttamam ।

tanmadhye ratnadvīpaṃ tu suratnavālukāmayam ॥ 2॥

caturdikṣu nīpataruṃ bahupuṣpasamanvitam ।

nīpopavanasaṅkulairveṣṭitaṃ parikhā iva ॥ 3॥

mālatīmallikājātīkesaraiścampakaistathā ।

pārijātaiḥ sthalapadmairgandhāmoditadiṅmukhaiḥ ॥ 4॥

tanmadhye saṃsmaredyogī kalpavṛkṣaṃ manoharam ।

catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam ॥ 5॥

bhramarāḥ kokilāstatra guñjanti nigadanti ca ।

dhyāyettatra sthiro bhūtvā mahāmāṇikyamaṇḍapam ॥ 6॥

tanmadhye tu smaredyogī paryaṅkaṃ sumanoharam ।

tatreṣṭadevatāṃ dhyāyedyaddhyānaṃ gurubhāṣitam ॥ 7॥

yasya devasya yadrūpaṃ yathā bhūṣaṇavāhanam ।

tadrūpaṃ dhyāyate nityaṃ sthūladhyānamidaṃ viduḥ ॥ 8॥

prakārāntaram ।

sahasrāre mahāpadme karṇikāyāṃ vicintayet ।

vilagnasahitaṃ padmaṃ dvādaśairdalasaṃyutam ॥ 9॥

śuklavarṇaṃ mahātejo dvādaśairbījabhāṣitam ।

hasakṣamalavarayuṃ hasakhaphreṃ yathākramam ॥ 10॥

tanmadhye karṇikāyāṃ tu akathādirekhātrayam ।

haḻakṣakoṇasaṃyuktaṃ praṇavaṃ tatra vartate ॥ 11॥

nādabindumayaṃ pīṭhaṃ dhyāyettatra manoharam ।

tatropari haṃsayugmaṃ pādukā tatra vartate ॥ 12॥

dhyāyettatra guruṃ devaṃ dvibhujaṃ ca trilocanam ।

śvetāmbaradharaṃ devaṃ śuklagandhānulepanam ॥ 13॥

śuklapuṣpamayaṃ mālyaṃ raktaśaktisamanvitam ।

evaṃvidhagurudhyānātsthūladhyānaṃ prasidhyati ॥ 14॥

atha jyotirdhyānam ।

gheraṇḍa uvāca ।

kathitaṃ sthūladhyānaṃ tu tejodhyānaṃ śa‍ṛṇuṣva me ।

yaddhyānena yogasiddhirātmapratyakṣameva ca ॥ 15॥

mūlā”dhāre kuṇḍalinī bhujagākārarūpiṇī ।

jīvā”tmā tiṣṭhati tatra pradīpakalikākṛtiḥ ।

dhyāyettejomayaṃ brahma tejodhyānaṃ parātparam ॥ 16॥

prakārāntaram ।

nābhimūle sthitaṃ sūryamaṇḍalaṃ vahnisaṃyutam ।

dhyāyettejo mahadvyāptaṃ tejodhyānaṃ tadeva hi ॥ 17॥

prakārāntaram ।

bhruvormadhye manordhve ca yattejaḥ praṇavā”tmakam ।

dhyāyejjvālā”valīyuktaṃ tejodhyānaṃ tadeva hi ॥ 18॥

atha sūkṣmadhyānam ।

gheraṇḍa uvāca ।

tejodhyānaṃ śrutaṃ caṇḍa sūkṣmadhyānaṃ śa‍ṛṇuṣva me ।

bahubhāgyavaśādyasya kuṇḍalī jāgratī bhavet ॥ 19॥

ātmanā saha yogena netrarandhrādvinirgatā ।

viharedrājamārge ca cañcalatvānna dṛśyate ॥ 20॥

śāmbhavīmudrayā yogī dhyānayogena sidhyati ।

sūkṣmadhyānamidaṃ gopyaṃ devānāmapi durlabham ॥ 21॥

sthūladhyānācchataguṇaṃ tejodhyānaṃ pracakṣate ।

tejodhyānāllakṣaguṇaṃ sūkṣmadhyānaṃ parātparam ॥ 22॥

iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham ।

ātmā sākṣādbhavedyasmāttasmāddhyānaṃ viśiṣyate ॥ 23॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगे

सप्तसाधने ध्यानयोगो नाम षष्ठोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍacaṇḍasaṃvāde ghaṭasthayoge

saptasādhane dhyānayogo nāma ṣaṣṭhopadeśaḥ oṃ ॥

समाधियोगो नाम सप्तमोपदेशः

घेरण्ड उवाच ।

समाधिश्च परो योगो बहुभाग्येन लभ्यते ।

गुरोः कृपाप्रसादेन प्राप्यते गुरुभक्तितः ॥ १॥

विद्याप्रतीतिः स्वगुरुप्रतीतिरात्मप्रतीतिर्मनसः प्रबोधः ।

दिने दिने यस्य भवेत्स योगी सुशोभनाभ्यासमुपैति सद्यः ॥ २॥

घटाद्भिन्नं मनः कृत्वा ऐक्यं कुर्यात्परात्मनि ।

समाधिं तं विजानीयान्मुक्तसंज्ञो दशादिभिः ॥ ३॥

अहं ब्रह्म न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।

सच्चिदानन्दरूपोऽहं नित्यमुक्तः स्वभाववान् ॥ ४॥

शाम्भव्या चैव भ्रामर्या खेचर्या योनिमुद्रया ।

ध्यानं नादं रसानन्दं लयसिद्धिश्चतुर्विधा ॥ ५॥

पञ्चधा भक्तियोगेन मनोमूर्च्छा च षड्विधा ।

षड्विधोऽयं राजयोगः प्रत्येकमवधारयेत् ॥ ६॥

अथ ध्यानयोगसमाधिः ।

शाम्भवीं मुद्रिकां कृत्वा आत्मप्रत्यक्षमानयेत् ।

बिन्दु ब्रह्ममयं दृष्ट्वा मनस्तत्र नियोजयेत् ॥ ७॥

खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।

आत्मानं खमयं दृष्ट्वा न किञ्चिदपि बाधते ।

सदानन्दमयो भूत्वा समाधिस्थो भवेन्नरः ॥ ८॥

अथ नादयोगसमाधिः ।

अनिलं मन्दवेगेन भ्रामरीकुम्भकं चरेत् ।

मन्दं मन्दं रेचयेद्वायुं भृङ्गनादं ततो भवेत् ॥ ९॥

अन्तःस्थं भ्रमरीनादं श्रुत्वा तत्र मनो नयेत् ।

समाधिर्जायते तत्र आनन्दः सोऽहमित्यतः ॥ १०॥

अथ रसनानन्दयोगसमाधिः ।

खेचरीमुद्रासाधनाद्रसनोर्ध्वगता यदा ।

तदा समाधिसिद्धिः स्याद्धित्वा साधारणक्रियाम् ॥ ११॥

अथ लयसिद्धियोगसमाधिः ।

योनिमुद्रां समासाद्य स्वयं शक्तिमयो भवेत् ।

सुश‍ृङ्गाररसेनैव विहरेत्परमात्मनि ॥ १२॥

आनन्दमयः सम्भूत्वा ऐक्यं ब्रह्मणि सम्भवेत् ।

अहं ब्रह्मेति चाऽद्वैतं समाधिस्तेन जायते ॥ १३॥

अथ भक्तियोगसमाधिः ।

स्वकीयहृदये ध्यायेदिष्टदेवस्वरूपकम् ।

चिन्तयेद्भक्तियोगेन परमाह्लादपूर्वकम् ॥ १४॥

आनन्दाश्रुपुलकेन दशाभावः प्रजायते ।

समाधिः सम्भवेत्तेन सम्भवेच्च मनोन्मनी ॥ १५॥

अथ राजयोगसमाधिः ।

मनोमूर्च्छां समासाद्य मन आत्मनि योजयेत् ।

परात्मनः समायोगात्समाधिं समवाप्नुयात् ॥ १६॥

अथ समाधियोगमाहात्म्यम् ।

इति ते कथितं चण्ड समाधिर्मुक्तिलक्षणम् ।

राजयोगः समाधिः स्यादेकात्मन्येव साधनम् ।

उन्मनी सहजावस्था सर्वे चैकात्मवाचकाः ॥ १७॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।

ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥ १८॥

भूचराः खेचराश्चामी यावन्तो जीवजन्तवः ।

वृक्षगुल्मलतावल्लीतृणाद्या वारिपर्वताः ।

सर्वं ब्रह्म विजानीयात्सर्वं पश्यति चात्मनि ॥ १९॥

आत्मा घटस्थचैतन्यमद्वैतं शाश्वतं परम् ।

घटाद्विभिन्नतो ज्ञात्वा वीतरागं विवासनम् ॥ २०॥

एवं मिथः समाधिः स्यात्सर्वसङ्कल्पवर्जितः ।

स्वदेहे पुत्रदारादिबान्धवेषु धनादिषु ।

सर्वेषु निर्ममो भूत्वा समाधिं समवाप्नुयात् ॥ २१॥

तत्त्वं लयामृतं गोप्यं शिवोक्तं विविधानि च ।

तेषां सङ्क्षेपमादाय कथितं मुक्तिलक्षणम् ॥ २२॥

इति ते कथितं चण्ड समाधिर्दुर्लभः परः ।

यं ज्ञात्वा न पुनर्जन्म जायते भूमिमण्डले ॥ २३॥

samādhiyogo nāma saptamopadeśaḥ

gheraṇḍa uvāca ।

samādhiśca paro yogo bahubhāgyena labhyate ।

guroḥ kṛpāprasādena prāpyate gurubhaktitaḥ ॥ 1॥

vidyāpratītiḥ svagurupratītirātmapratītirmanasaḥ prabodhaḥ ।

dine dine yasya bhavetsa yogī suśobhanābhyāsamupaiti sadyaḥ ॥ 2॥

ghaṭādbhinnaṃ manaḥ kṛtvā aikyaṃ kuryātparātmani ।

samādhiṃ taṃ vijānīyānmuktasaṃjño daśādibhiḥ ॥ 3॥

ahaṃ brahma na cānyo’smi brahmaivāhaṃ na śokabhāk ।

saccidānandarūpo’haṃ nityamuktaḥ svabhāvavān ॥ 4॥

śāmbhavyā caiva bhrāmaryā khecaryā yonimudrayā ।

dhyānaṃ nādaṃ rasānandaṃ layasiddhiścaturvidhā ॥ 5॥

pañcadhā bhaktiyogena manomūrcchā ca ṣaḍvidhā ।

ṣaḍvidho’yaṃ rājayogaḥ pratyekamavadhārayet ॥ 6॥

atha dhyānayogasamādhiḥ ।

śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣamānayet ।

bindu brahmamayaṃ dṛṣṭvā manastatra niyojayet ॥ 7॥

khamadhye kuru cātmānamātmamadhye ca khaṃ kuru ।

ātmānaṃ khamayaṃ dṛṣṭvā na kiñcidapi bādhate ।

sadānandamayo bhūtvā samādhistho bhavennaraḥ ॥ 8॥

atha nādayogasamādhiḥ ।

anilaṃ mandavegena bhrāmarīkumbhakaṃ caret ।

mandaṃ mandaṃ recayedvāyuṃ bhṛṅganādaṃ tato bhavet ॥ 9॥

antaḥsthaṃ bhramarīnādaṃ śrutvā tatra mano nayet ।

samādhirjāyate tatra ānandaḥ so’hamityataḥ ॥ 10॥

atha rasanānandayogasamādhiḥ ।

khecarīmudrāsādhanādrasanordhvagatā yadā ।

tadā samādhisiddhiḥ syāddhitvā sādhāraṇakriyām ॥ 11॥

atha layasiddhiyogasamādhiḥ ।

yonimudrāṃ samāsādya svayaṃ śaktimayo bhavet ।

suśa‍ṛṅgārarasenaiva viharetparamātmani ॥ 12॥

ānandamayaḥ sambhūtvā aikyaṃ brahmaṇi sambhavet ।

ahaṃ brahmeti cā’dvaitaṃ samādhistena jāyate ॥ 13॥

atha bhaktiyogasamādhiḥ ।

svakīyahṛdaye dhyāyediṣṭadevasvarūpakam ।

cintayedbhaktiyogena paramāhlādapūrvakam ॥ 14॥

ānandāśrupulakena daśābhāvaḥ prajāyate ।

samādhiḥ sambhavettena sambhavecca manonmanī ॥ 15॥

atha rājayogasamādhiḥ ।

manomūrcchāṃ samāsādya mana ātmani yojayet ।

parātmanaḥ samāyogātsamādhiṃ samavāpnuyāt ॥ 16॥

atha samādhiyogamāhātmyam ।

iti te kathitaṃ caṇḍa samādhirmuktilakṣaṇam ।

rājayogaḥ samādhiḥ syādekātmanyeva sādhanam ।

unmanī sahajāvasthā sarve caikātmavācakāḥ ॥ 17॥

jale viṣṇuḥ sthale viṣṇurviṣṇuḥ parvatamastake ।

jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat ॥ 18॥

bhūcarāḥ khecarāścāmī yāvanto jīvajantavaḥ ।

vṛkṣagulmalatāvallītṛṇādyā vāriparvatāḥ ।

sarvaṃ brahma vijānīyātsarvaṃ paśyati cātmani ॥ 19॥

ātmā ghaṭasthacaitanyamadvaitaṃ śāśvataṃ param ।

ghaṭādvibhinnato jñātvā vītarāgaṃ vivāsanam ॥ 20॥

evaṃ mithaḥ samādhiḥ syātsarvasaṅkalpavarjitaḥ ।

svadehe putradārādibāndhaveṣu dhanādiṣu ।

sarveṣu nirmamo bhūtvā samādhiṃ samavāpnuyāt ॥ 21॥

tattvaṃ layāmṛtaṃ gopyaṃ śivoktaṃ vividhāni ca ।

teṣāṃ saṅkṣepamādāya kathitaṃ muktilakṣaṇam ॥ 22॥

iti te kathitaṃ caṇḍa samādhirdurlabhaḥ paraḥ ।

yaṃ jñātvā na punarjanma jāyate bhūmimaṇḍale ॥ 23॥

इति श्रीघेरण्डसंहितायां घेरण्डयोगेश्वरनृपचण्डकापालिसंवादे

घटस्थयोगसाधने योगस्य सप्तसारे समाधियोगो नाम

सप्तमोपदेशः समाप्तः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ gheraṇḍayogeśvaranṛpacaṇḍakāpālisaṃvāde

ghaṭasthayogasādhane yogasya saptasāre samādhiyogo nāma

saptamopadeśaḥ samāptaḥ oṃ ॥

नवीनश्लोकवर्णनो नामाष्टमोपदेशः
अथ परिशिष्टग्रन्थः ।
प्रातः स्मरामि यदुनन्दनकृष्णचन्द्रं
प्रातर्भजामि रघुनन्दनरामचन्द्रम् ।
प्रातर्नमामि तेजोमयसूर्यचन्द्रं
प्रातः स्मरामि जगदेककृपाकरत्वम् ॥ १॥
प्रातः स्मरामि गणनायकमेव मुख्यं
प्रातर्नमामि गौरीपतिमम्बुजाक्षम् ।
प्रातर्भजामि सुखदं जगदादिहेतुं
प्रातः स्मरामि हरिमीशमजं दयालुम् ॥ २॥
प्रातः स्मरामि गोपालनतत्परं वै
प्रातर्नमामि गोपीसुतनन्दलालम् ।
प्रातर्भजामि हरिदासिबिहारिबालं
प्रातः स्मरामि राधादियुतं हि चन्द्रम् ॥ ३॥
navīnaślokavarṇano nāmāṣṭamopadeśaḥ

atha pariśiṣṭagranthaḥ ।

prātaḥ smarāmi yadunandanakṛṣṇacandraṃ

prātarbhajāmi raghunandanarāmacandram ।

prātarnamāmi tejomayasūryacandraṃ

prātaḥ smarāmi jagadekakṛpākaratvam ॥ 1॥

prātaḥ smarāmi gaṇanāyakameva mukhyaṃ

prātarnamāmi gaurīpatimambujākṣam ।

prātarbhajāmi sukhadaṃ jagadādihetuṃ

prātaḥ smarāmi harimīśamajaṃ dayālum ॥ 2॥

prātaḥ smarāmi gopālanatatparaṃ vai

prātarnamāmi gopīsutanandalālam ।

prātarbhajāmi haridāsibihāribālaṃ

prātaḥ smarāmi rādhādiyutaṃ hi candram ॥ 3॥

इति श्रीघेरण्डसंहितायां सर्वयोगसारराधाचन्द्रशर्मकृत-
नवीनश्लोकवर्णनो नामाष्टमोपदेशः ॐ ॥

iti śrīgheraṇḍasaṃhitāyāṃ sarvayogasārarādhācandraśarmakṛta-

navīnaślokavarṇano nāmāṣṭamopadeśaḥ oṃ ॥